कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 344, कुल 361 में से
संदर्भ में पढ़ें४८ अथर्ववेदीय-कौशिकसूत्रस्य—
कण्डिका ॥ ५९ ॥
अथ काम्यानां कर्मणां विधिं वक्ष्यामः । संभारलक्षणे मण्डपविधानमुक्तम् ।
गृहे वा कुर्यात् ॥ सू० १ ॥—चरुं जुहोति । शतवर्षपरिमित आयुर्मवति ॥ २॥
उपतिष्ठते विश्वान्देवान् ॥ ३ ॥ पुष्टिकामो द्रव्यवृद्धिकामः ॥ ४ ॥ सम्पच्छब्द
उदयशब्द उच्यते ॥ ५ ॥ पुरुषादिबलकामो राजा नित्यं कुर्यात् ॥ ७ ॥ जुहोति
इन्द्राय ग्रामकामः । इन्द्रमुपतिष्ठते ॥ ८ ॥ पालाशसमिध आदधाति । समा-
नामुपस्तरणानि जुहोति । सू० ९ ।—चरुं जुहुयात् । भृशमिन्द्रमुपतिष्ठते । सू०
१० । इन्द्रं यजते । कूपतड़ागवापीपुष्करिणीउदकमर्थी सेतुबन्धादिउदकार्थी
एवंकामः । अथवा उपतिष्ठते । सू० ११।—इन्द्रं यजते । उपतिष्ठते ॥ सू०
१२।—इन्द्रं यजते । उपतिष्ठते । एकोऽस्यां पृथिव्यां राजा भवति । एकाधिपत्य-
कामः । सू० १३।—इन्द्रं यजते । उपतिष्ठते । निखिलं राज्यं भवतीत्यर्थः । सू०
१४।—इन्द्रं यजते । उपतिष्ठते । द्विपदचतुष्पदानांमविनाशमित्यर्थः । सू०
१५।—अग्निं यजते । उपतिष्ठते । सू० १६।—पृथिवीमग्निमन्तरिक्षं वायु द्यौः
आदित्यः दिशः चन्द्रमाः । एता अष्टौ देवताः । अष्टौ चरवः । उपतिष्ठते
सर्वकामः ॥ सू० १७।—यजते वा उपतिष्ठते वा सर्वकामः । सू० १८ ।—
इन्द्रं ••• अथर्वाणं •• अदितिं देवान् बृहस्पतिं यजते वा उपतिष्ठते वा सर्व
कामः । “बृहस्पते सवितरि”त्येकया सुप्तं ब्रह्मचारिणमुत्थापयति । आदित्य
उदिते सति प्रायश्चित्तमेतत् । सू० १९ । मन्त्रोक्ता देवताः यजते उपतिष्ठते च
सर्वकामः । सू० २१ । सर्वलोकाधिपत्यकामः । सू० २२ ।—अभीष्टमन्नमभिमन्त्र्य
भिक्षुकेभ्यः करोति । सू० २५ । अथर्वाणं यजते उपतिष्ठते वा सर्वलोकाधिपत्य-
कामः । परिमोक्षः । गोदानिकं तन्त्रं परिधानान्तं कृत्वा ततो-इदावत्सरायेति
ततोऽभ्यातानानि । ऋचं सामेति । ततोऽभ्यातानान्तं हुत्वा दोषो गायेति—सूक्तेन
भक्तं सम्पात्याभ