कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 260, कुल 361 में से
संदर्भ में पढ़ें२२८ अथर्ववेदीय-कौशिकसूत्रम् ।
अयासा मनसा कृतोऽयास्यं हव्यमूहिषे ॥ अद्यानो
धेहि भेषजम् ॥ स्वाहेत्यग्नौ जुहुयात् ॥४॥ तत्रैवैतान्
होमाञ्जुहुयात् ॥५॥ आरादग्निं क्रव्यादं निरूहञ्जीवा-
तवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधा-
नावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वा-
हेति हुत्वा ॥ ६ ॥ अपेत एतु निर्ऋतिरित्येतेन सूक्तेन
जुहुयात् ॥७॥ अपेत एतु निर्ऋतिर्नैहास्या अपि किञ्चन ।
अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे ॥ ये ते पाशा
एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया
सर्वा अप यजामसि ॥ निरितो यन्तु नैर्ऋत्या मृत्यव एक-
शतं परः ॥ सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महा-
न्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु
मरुतः स्वर्काः ॥ ब्रह्म आजडुदगादन्तरिक्षं दिवं च ब्रह्मा-
वाघूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मा-
स्मदप हन्तु शमलं तमश्च ॥८॥ वरमनड्वाहमिति समा-
नम् ॥९॥५॥९७॥
अथ यत्रैतद्भूमिचलो भवति तत्र जुहुयात् ॥ १ ॥
अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता
इमाः। अच्युतो ऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठाति
जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरि-
इत्यादि से आहुति देकर ॥ ४ ॥ वही इन होमों को भी देवे ॥ ५ ॥
“आरादग्निं क्रव्यादं०” इस सूक्त से आहुति देवे ॥ ६ ॥ ७ ॥ “अपेत
एतु०” इत्यादि से आहुतियां देवे ॥ ८ ॥ दक्षिणा में कर्त्ताको बैल देवे
॥ ९ ॥ ५ ॥ ९७ ॥ यह सत्तानवेवी काण्डिका खतम हुई ॥
जहां भूकम्प होवे वहां आहुति देवे ॥ १ ॥ “अच्युता द्यौरच्युत०”