सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 89, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 89

[पृष्ठम् १६०]

कौषीतकिब्राह्मणे होत्रकशस्त्राणि (XXX, ९, ३०–३६)

प्रैषो योऽपुरोनुवाक्यः । ३० । अथो द्विदेवत्येषु वै पुरोनुवाक्या भवन्ति । ३१ । सर्वेषु च
प्रस्थितेषु । ३२ । तस्मादस्य पुरोनुवाक्यामन्वाह । ३३ । अथ यदतिप्रैषमाह । ३४ ।
परमेवैतदहरभिवदति । ३५ । परमेवैतदहरभ्यारभ्य वसन्तीति ह स्माह कौषीतकिः
परमेवैतदहरभ्यारभ्य वसन्तीति ह स्माह कौषीतकिः । ३६ ।।१।।


पादटिप्पण्यः

¹ L. P. ॰न्दांसि ² L. छन्दसस्; P. छन्दशस् ³ P. ॰दाहूय॰ ⁴ L. P. ॰न्यामो॰; add भवन्ति ⁵ L. P. ॰पत्याः ⁶ P. ॰ष्ठति ⁷ IO. omits ⁸ L. P. ER. दधति ⁹ P. omits ¹⁰⁻¹⁰ BM¹. omits ¹¹ L. P. Here ends Khaṇḍa 11


इति तृतीयदशके दशमोऽध्यायः


APPENDIX I

THE BEGINNING PASSAGES OF EACH KHAṆḌA OF KB

मण्डलम्खण्डःवाक्यसंख्या¹आरम्भवाक्यम्
I1२२¹अस्मिन् वै लोक उभये देवमनुष्या आसुः ।
I2३३पौर्णमासं प्रथमायं तन्त्रं भवति ।
I3३३देवासुरा वा एषु लोकेषु संयत्ता आसुः ।
I4२०विभक्तिभिः प्रयाजानुयाजान् यजति ।
I5२६पदपङ्क्तयो याज्यापुरोनुवाक्याः ।
II1३५घर्मो वा एष प्रवृज्यते यदग्निहोत्रम् ।
II2३१चतुरश्रयेत् ।
II3२८द्विस्रुदीचीं स्रुचमुद्यच्छति ।
II4३४आहवनीय एव जुहुयादिति हैक आहुः ।
II5३७अन्नादेव ते सर्वे जायन्ते ।
II6२४स वै सायं जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निरिति ।
II7१६रात्रिरवेवाहन् जुहोत्यहो रात्रौ ।
II8२७स य उदिते जुहोति ।
II9१७तदु ह स्माह कौषीतकिः ।
III1१४यद् दर्शपूर्णमासयोरुपवसति ।
III2३१अथ यत् पुरस्तात् सामिधेनीनां जपति ।
III3३४अग्ने महां असि ब्राह्मण भारतेति ।
III4२८तेन हि संपद्य महिमानं गच्छति ।
III5१९अथ यदुत्तमे प्रयाजे देवताः समावपति ।
III6२५तौ वै जुषाणाज्यौ भवतः ।
III7२३बाह्वंतरान्तरं वषट्कुर्यात् पुरस्ताद् दीर्घमुपरिष्टाद्ध्रस्वम् ।
III8२५अथ यदमावास्यायामिन्द्राग्नी यजति ।
III9२७अथ यदिडामुपह्वयते ।
III10३५अथ यत् त्रीननुयाजान् यजति ।
III11१५अथ यद् गार्हपत्ये पत्नीसंयाजैश्चरन्ति ।
III12२७सोमं प्रथमं यजति ।
IV1११अनुनिर्वाप्या वै देवा असुरानपाघ्नत ।

¹ The Devanāgarī numerals indicate the number of sentences the Khaṇḍa contains.