कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 86, कुल 119 में से
संदर्भ में पढ़ेंकौषीतकिब्राह्मणम् — पृष्ठम् १५४
XXIX, 7, १०-8, २३ कौषीतकिब्राह्मणे 154
कैव निरुक्ता ।१०। एक उ वै प्रजापतिः ।११। ³-तत् प्राजापत्यं रूपम्-³ ।१२। ⁴दशर्चं
भवति ।१३। दशमे प्राणाः ।१४। प्राणानेव तद् यज्ञेषु⁵ च यजमानेषु च दधाति ।१५।
द्विपूक्ता होत्राणां ⁶-मध्यंदिनाः ।१६। द्वचृचस्येव-⁶ होतुः प्रत्युद्यमाय⁷ ।१७। अथो
संवत्सरो वै होता ।१८। ऋतवो होत्राशंसिनः ।१९। तद् यद् द्वन्द्वं समस्ता ऋतव
आप्यायन्ते ग्रीष्मो वर्षा हेमन्त इति ।२०। तस्माद् द्विपूक्ता होत्राणां मध्यंदिनाः ।२१।
⁸-अथो आत्मा वै होता ।२२। अङ्गानि होत्राशंसिनः ।२३। तद् यद् द्विगुणान्यङ्गानि
भवन्ति-⁸ ।२४। तस्माद् द्विपूक्ता होत्राणां मध्यंदिनाः ।२५ ।।७।।
¹ IO. अमिनिष्टितं
² L. P. omit
³-³ L. P. प्रजापतावेव तदहरहः प्रतितिष्ठन्तो यन्ति
⁴ L. P. add तेषामेतान्यच्युतानि भवन्ति पृष्ठं मैत्रावरुणस्य पर्यासावितरयोस्तेष्वेव तदहरहः प्रतितिष्ठन्तो यन्ति ।।७।।
⁵ L. P. यज्ञे
⁶-⁶ P. मध्यंदिनायुक्तस्येव
⁷ L. P. ०द्यमाया
⁸-⁸ BM². omits
स्तोमातिशंसं प्रातःसवनेषु शस्त्वाहीनसक्तानि मध्यंदिनेषु शंसन्ति चतुर्विंशेऽभिजिति
विषुवति बृहत्पृष्ठे¹ विश्वजिति महाव्रतीयेऽहन् ।१। अहीनो ह्येतान्यहानि ।२। ²-तद् यद-
हीनसक्तानि मध्यंदिनेषु-² शंसन्ति ।३। पराचीनि वा एतान्यहान्यनभ्यावर्तीनि³ ।४।
⁴-नेत् पराञ्चोऽपामेति-⁴ ।५। अहीनसूक्तानि⁵ शस्त्वैकाहिकीभिः⁶ परिदधति⁷ ।६। प्रतिष्ठा
वा एकाहः प्रतिष्ठित्यै एव ।७। पञ्च पञ्च सूक्तानि मध्यंदिने¹ मैत्रावरुणः शंसति सर्वेषु
छन्दोमेषु ।८। पशवो वै छन्दोमाः ।९। पाङ्क्ताः पशवः ।१०। पशूनामेवाप्त्यै ।११। चत्वारि
चत्वारि सूक्तानि¹ ब्राह्मणाच्छंसी चाच्छावाकश्च ⁴-शंसतः सर्वेषु छन्दोमेषु-⁴ ।१२। पशवो
वै छन्दोमाः ।१३। चतुष्पदा वै पशवः ।१४। अथो चतुष्पदाः पशूनामेवाप्त्यै ।१५। पञ्चा-
हावानि शस्त्राणि ।१६। पशवो वा उक्थानि ।१७। पाङ्क्ताः पशवः ।१८। पशूनामेवाप्त्यै
।१९। ऐकाहिका उक्थयाज्याः ।२०। प्रतिष्ठा वा एकाहः प्रतिष्ठित्यै एव ।२१। अनुवषट्-
कुर्वन्त्याहुतीनामेव शान्त्यै ।२२। आहुतीनां प्रतिष्ठित्यै आहुतीनां प्रतिष्ठित्यै ।२३ ।।८।।
¹ L. P. omit
²-² L. P. अहीनसूक्तानि शस्त्वैकाहिकानि
³ L. P. add भवन्ति
⁴-⁴ L. P