सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 84, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 84

कौषीतकिब्राह्मणम्

[पृष्ठम् १५०]

XXVIII, 8, २-२०

मैत्रावरुणस्य चाच्छावाकस्य च स्तोत्रियौ भवतः ॥२॥ वासिष्ठौ नवर्चौ पर्यासौ ॥३॥ अन्ता-
वेवैतत् सदृशौ कुर्वन्तः ॥४॥ स्तोत्रियाञ्छस्तवा श्वःस्तोत्रियाननुरूपम् कुर्वन्ते¹ ॥५॥ ²अहीन-
संतत्या अहीनरूपतायै² ॥६॥ अहारेव तदह्नोऽनुरूपं³ कुर्वते ॥७॥ अह्नेर्वा अह्नोऽनुरूपम्⁴
॥८॥ तदाहुः कस्मात् स्तुतमनुशस्यते कस्मात् स्तोममतिशंसन्तीति ॥९॥ न⁵ वै तत् स्तुतं
भवति यन्नानुशस्यते⁶ ॥१०॥ न स स्तोमो देवान् गच्छति ⁷यं नातिशंसन्ति⁷ ॥११॥ तस्मात्
स्तुतमनुशस्यते तस्मात् स्तोममतिशंसन्तीति⁸ ॥१२॥ चतुराहावानि शस्त्राणि ॥१३॥ पशवो
वा उक्थानि ॥१४॥ चतुष्ट्या वै पशवः ॥१५॥ अथो चतुष्पादाः पशूनामेवाप्त्यै ॥१६॥ ऐका-
हिका उक्थयाज्याः ॥१७॥ प्रतिष्ठा वा एकाहः प्रतिष्ठित्यै एव ॥१८॥ अनुवषट्कुर्वन्त्या-
हुतीनामेव शान्त्यै ॥१९॥ आहुतीनां प्रतिष्ठित्यै आहुतीनां प्रतिष्ठित्यै⁹ ॥२० ॥४॥


पादटिप्पणी:
¹ L. P. कुर्वन्ति   ²-² L. P. अहीनरूपताया अहीनसंतत्यै   ³ IO. °ह्नो रूपं
⁴ IO. अह्नो रूपं   ⁵ L. P. add ह   ⁶ ER. यन्नानुशंसन्ति   ⁷-⁷ L. P. यो नातिशस्यते;
ER. यन्नानु°   ⁸ L. P. omit इति   ⁹ L. P. Here ends Khaṇḍa 10

इति तृतीयदशकेऽष्टमोऽध्यायः


[पृष्ठम् १५१]

151   होतृकशस्त्राणि   XXIX, 1, १-२, १७

अथ यत्र ह तत् सर्वचरौ देवा यज्ञमतन्वत ॥१॥ तान् हार्बुदः काद्रवेयो मध्यंदिन¹ उपो-
दासृप्योवाच ॥२॥ एका वै व इयं होत्रा न² क्रियते ग्रावस्तोत्रिया ॥३॥ तां वोऽहं करवा-
ण्युप मा ह्वयध्वमिति ॥४॥ ते ह तथेत्यूचुः ॥५॥ तं होपजुहुविरे³ ॥६॥ स एता ग्रावस्तो-
त्रिया अभिरूपा अपश्यत् ॥७॥ प्रेते वदन्तु प्र वयं वदामेति प्रवदन्तु ॥८॥ प्र हि ते वदन्ति
प्रसवदति⁴ ॥९॥ अथ यत्र बृहद् बृहदिति ॥१०॥ बृहद् वदन्ति मदिरेण मन्दिनोति तत्र ॥११॥
वि षू मुञ्चेति⁵ विमुञ्चत्सु ॥१२॥ ता वै चतुर्दश भवन्ति ॥१३॥ दश वा अङ्गुलयश्चत्वारो
ग्रावाणः ॥१४॥ एतदेव तदभिसंपद्यन्ते ॥१५॥ ता वै जगत्यो भवन्ति ॥१६॥ जागता वै
ग्रावाणः ॥१७॥ अथ यत्⁶ त्रिष्टुभा परिदधाति ॥१८॥ तेनो मध्यंदिने⁷ त्रिष्टुबपाप्ता ॥१९॥
स वै तिष्ठन्नभिष्टौति ॥२०॥ तिष्ठन्तीव वै ग्रावाणः ॥२१॥ स वा उष्णीष्यपिनद्धाक्षोऽभि-
तुष्टाव ॥२२॥ तस्मादप्येतर्ह्युष्णीष्येव⁷ ग्राव्णोऽभिष्टौति ॥२३॥ अथो खल्वाहुः ॥२४॥ ⁸चक्षुर्हा
हं⁸ स सर्प आस ॥२५॥ तद्विषतो विषमपीयाय ॥२६॥ स एताः पावमानीर्विषापमद-
नीरभितुष्टाव⁹ ॥२७॥ तद् यत् पावमानीर्विषापमदनीरभिष्टौति⁹ ॥२८॥ यज्ञस्यैव शान्त्यै
॥२९॥ यजमानस्य¹⁰ च भिषज्यायै ॥३० ॥१॥


पादटिप्पणी:
¹ L. P. माध्यं   ² P. तृ   ³ L. P. °जुह्निरे   ⁴ L. P. omit   ⁵ L. P. मुञ्चा
सुषुवुषो मनीषाामिति   ⁶ L. यस्   ⁷ L. P. ष्ष्माद्धा अप्ये°   ⁸-⁸ L. P. चक्षुरियाय;
L. (var.) चक्षुहाँस; and also as here   ⁹ L. P. °पवद्°   ¹⁰ L. P. यजमानानां


अथ स्तुते पवमाने दधिघर्मेण चरन्ति ¹तस्योक्तं ब्राह्मणम्¹ ॥१॥ अथ हविष्पङ्क्त्या
चरन्ति तस्या उक्तं ब्राह्मणम् ॥२॥ वासिष्ठीर्मध्यंदिन उन्नीयमानेभ्योऽन्वाह ॥३॥ वसिष्ठो
ह मध्यंदिन इन्द्राय सोमं प्रोवाच ॥४॥ ता वा आवत्यो हरिवत्यो भवन्ति पुरोनुवाक्या-
रूपेण ॥५॥ ता वा ऐन्द्र्यस्त्रिष्टुभो भवन्ति ॥६॥ ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम् ॥७॥
²ता वै दशान्वाह ॥८॥ दश ह्यत्र³ चमसानुन्नयन्ति² ॥९॥ अथ होत्राः संयजन्ति तासामुक्तं
ब्राह्मणम् ॥१०॥ ऐन्द्रीभिस्त्रिष्टुग्भिर्मध्यंदिने प्रस्थितानां यजन्ति ॥११॥ ऐन्द्रं हि त्रैष्टुभं
माध्यंदिनं सवनम् ॥१२॥ अनुवषट्कुर्वन्त्याहुतीनामेव शान्त्यै ॥१३॥ आहुतीनां प्रतिष्ठित्यै
॥१४॥ अथैलाथ होतृचमसस्तस्योक्तं ब्राह्मणम् ॥१५॥ हुतेषु दक्षिणेषु दक्षिणा नीयन्ते
तासामुक्तं ब्राह्मणम् ॥१६॥ वैश्वामित्रीं मरुत्वतीयग्रहस्य पुरोनुवाक्यामन्वाह तस्या उक्तं
ब्राह्मणम् ॥१७ ॥२॥


पादटिप्पणी:
¹-¹ L. P. अत्र कालो हि भवत्यथो सवनस्यैव सरसताया   ²-² ER. अनुवषट्करोत्याहुतीनामेव
शान्त्यै । आहुतीनां प्रतिष्ठित्यै ।   ³ L. P. न्वा अत्र