कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 56, कुल 119 में से
संदर्भ में पढ़ेंपृष्ठम् ९४
संवत् तत् संवत्सरमभिवदति ।२४। तदेतस्याह्नो रूपम् ।२५। किमु श्रेष्ठः किं यविष्ठो
न आजगन्मत्यार्भवम् ।२६। ⁷⁻तस्मिन् वा अस्ति⁻⁷ संवत्सर इदमद्या व्यख्यतेति ।२७।
तत् प्रत्यक्षं संवत्सरमभिवदति ।२८। तदेतस्याह्नो रूपम् ।२९। यज्ञस्य वो रथ्यं विश्पतिं
विशामिति शार्यातं वैश्वदेवम् ।३०। ⁸⁻तस्मिन् वा अस्तीन्द्रो⁻⁸ मित्रो वरुणः सं चिकित्सिर
इति ।३१। संवत् तत् संवत्सरमभिवदति ।३२। तदेतस्याह्नो रूपम् ।३३। वैश्वानराय
धिषणामृतावधृ इति वैश्वानरीयम् ।३४। ⁷⁻तस्मिन् वा अस्ति⁻⁷ धिया रथं न कुलिशः
समृण्वतीति ।३५। संवत् तत् संवत्सरमभिवदति ।३६। तदेतस्याह्नो रूपम् ।३७। वृष्णे
शर्धाय सुमखाय वेधस इति मारुतम् ।३८। ⁷⁻तस्मिन् वा अस्ति⁻⁷ गिरः समज्रे विद-
थेष्व्वाभुव इति ।३९। संवत् तत् संवत्सरमभिवदति ।४०। तदेतस्याह्नो रूपम् ।४१। यज्ञेन
वर्धत जातवेदसमिति जातवेदसीयम् ।४२। ⁷⁻तस्मिन् वा अस्ति⁻⁷ संवदस्वान् रयिमस्मासु
दीदिहीति ।४३। संवत् तत् संवत्सरमभिवदति ।४४। तदेतस्याह्नो रूपम्⁹ ।४५ ।।६।।
¹ L. P. omit तस्य ²⁻² L. P. omit; L. (var.) as here ³ L. P. प्रजनयतीति
⁴ L. सिक्तिर्; P. सिक्तिं ⁵ ER. प्रतिपदनुचरो ⁶⁻⁶ L. P. omit ⁷⁻⁷ L. P. omit;
L. (var.) as here ⁸⁻⁸ L. P. omit तस्मिन् वा अस्ति; L. (var.) as here ⁹ L. P. add
इत्याग्निमारुतसूक्तानीत्येतस्याह्नः सूक्तानि तदग्निष्टोमो वोक्थ्यं वाहः संतिष्ठतेऽग्निष्टोम इति पैङ्ग्य-
मुख्यमिति कौषीतकम् ।।९।।
तद्धैतदहरेके छन्दोगाः सर्वस्तोमं कुर्वन्ति ।१। अनेनाह्ना षळहमाप्नुमः¹ ।२। षळहेन
संवत्सरम् ।३। ये च संवत्सरे कामाः ।४। षळहो वा² उ सर्वः संवत्सर इति वदन्तः ।५।
ते यदि तथा कुर्युः ।६। षळहक्लृप्तं शस्त्रं कल्पयीत ।७। यत् प्रथमस्याह्न आज्यं तदाज्यम्
।८। यो द्वितीयस्याह्नः प्रउगः स प्रउगः ।९। यत् तृतीयस्याह्नो मरुत्वतीयं तन्मरुत्वतीयम्
।१०। यच्चतुर्थस्याह्नो निष्केवल्यं तन्निष्केवल्यम् ।११। यत् पञ्चमस्याह्नो वैश्वदेवं तद्
वैश्वदेवम् ।१२। यत् षष्ठस्याह्न आग्निमारुतं तदाग्निमारुतम् ।१३। तत्र पृष्ठस्तोत्रि-
यान्तसर्वान्तसमाहृत्योपरिष्टात्³ प्रगाथस्य प्रगाथीकृत्य शंसेत् षळहस्याप्त्यै ।१४। तद् यथै-
वैतेनाह्ना⁴ छन्दोगाः षळहमाप्नुवन्ति षळहेन संवत्सरम् ।१५। ये च संवत्सरे कामाः ।१६।
एवमेवैतेनाह्ना होता⁵ षळहमाप्नोति षळहेन संवत्सरम् ।१७। ये च संवत्सरे कामाः ।१८।
तद्ध स्मैतत् प्रविश्याह सेंषा मुष्टिरिवेति ।१९। यं कं च छन्दोगाः स्तोममुपापहरेरन् ।२०।
न तदाद्रियेत ।२१। यदेवेवं शस्त्रं प्रावोचाम⁶ ।२२। तत एव नेयात् ।२३। एते वा उ
पृष्ठम् ९५
स्तोमसाहे⁷ सूक्ते यत् कयाशुभीयतदिदासीये ।२४। ताभ्यामेव न निष्क्रूयवेतेति न निष्क्रूय-
वेतेति⁸ ।२५ ।।७।।
¹ L. P. ॰माप्नुवन् ² IO. BM². omit ³ L. P. सर्वान् पृष्ठस्तोत्रियान् समा०; L. (var.)
पृष्ठ्य (for पृष्ठ) ⁴ L. P. omit एव ⁵ IO. छन्दोगाः ⁶ L. प्रागैक्षाम; (var.) as
here; P. प्रागैक्ष्याम ⁷ ER. स्तोमवाहे ⁸ L. P. Here ends Khaṇḍa 10
इति द्वितीयदशके नवमोऽध्यायः