कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
पृष्ठ 48, कुल 119 में से
संदर्भ में पढ़ेंXVI, 10, १-३७ कौषीतकिब्राह्मणे तृतीयसवनम् 78
दात्मानमभितो बाहू भवतस्तस्मादात्मानमभितः पार्श्वे स्यातां यत्सुरा सोमग्रहाननुवषट्कृत्य सर्वे
तस्मात्सोमेनेष्टा सौत्रामणीं कुर्याद्य एवं विद्वान्सोमेनेष्टा सौत्रामण्या यजेत स श्रियं प्रजां विराजमाप्नोति
यश्चैवं वेद श्रीर्विराजन्नाद्यं श्रियो विराजोऽन्नाद्यस्योपाप्त्या अवभृथमवैति यथा सोमे मैत्रावरुण्या वा
पयस्यया यजेत तस्या उक्तं ब्राह्मणम् ॥१०॥
ऐन्द्राग्नान्युक्थ्योक्थानि भवन्ति ।१। इन्द्राग्नी वै सर्वे देवाः ।२। वैश्वदेवं तृतीयसवनम्
।३। सर्वेषामेव देवानां प्रीत्यै ।४। आग्नेयीषु मैत्रावरुणाय प्रणयन्त्यैन्द्रीष्वितरयोः ।५।
तेन तान्यैन्द्राग्नानि भवन्ति ।६। चत्वारि चत्वारि सूक्तानि शंसन्ति ।७। पशवो वा
उक्थानि ।८। चतुष्ट्या