सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 34, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 34

पृष्ठम् ५०

असृग्भाजनानि ह वै रक्षांसि भवन्ति ।१५। नेद् रक्षांसं भागेन देवं भागं प्रसजानीति⁷
।१६। स एषोऽङ्घ्रिगुः शंहासनमेव ।१७। अङ्गानि मा⁸ परिकर्तंरिति ।१८। यद्व वा
अदुष्टं तद् देवानां हविः ।१९। न वै ते दुष्टं हविरदन्ति ।२०। नवकृत्वोऽङ्घ्रिगाववानिति⁹
।२१। नवैमे प्राणाः ।२२। प्राणानेव तद् यजमाने दधाति ।२३। सर्वायुत्वायास्मिँल्लोके
।२४। अमृतवायामुष्मिन् ।२५। त्रिः परिदधात्यपराक्त्याय ।२६। सकृत् पुरस्तादाह
।२७। सकृदिव वै पितरः ।२८। पितृदेवत्य इव वै पशुरालभ्यमानो भवति ।२९।
अथ यत् त्रिर्परिष्टादाह ।३०। त्रिवं देवत्या¹⁰ ।३१। देवदेवत्यमेवैनं तद्यातयामानं
करोति ।३२ ॥७॥


¹ L. P. पर्यग्नि      ² P. पर्यग्निं क०      ³ L. P. ०ग्निः पुरः      ⁴ ०त्यग्नीषं      ⁵ L. P. Here ends Khanda 3
⁶ P. परशवः; BM¹. पशव      ⁷ L. P. प्रसुजानीति      ⁸ P. वा      ⁹ L. (var.), P. ०वानीति
¹⁰ L. P. देवत्रा

परिधायोपांशु जपत्युभावपापश्नेति ।१। अपापो ह वै देवानां शमिता ।२। तस्मा¹
एवैनं तत् संग्रयच्छति ।३। स हि देवाननुवेद² ।४। अथ स्तोकीया अन्वाह ।५। स्तोका-
नेवैताभिरग्रये स्वदयति ।६। एता ह वा उ तेषां पुरोनुवाक्या एता याज्याः ।७। तस्माद-
भिरूपा भवन्ति ।८। स्वाहाकृतिभिश्चरित्वा वपया चरन्ति ।९। प्रयाजानेव तत् पशुभाजः
कुर्वन्ति ।१०। न स्वाहाकृतीश्च वपां चान्तरेण वाचं विसृजेत ।११। प्राणा वै स्वाहा-
कृतयः ।१२। आत्मा वपा ।१३। नेत् प्राणांश्चात्मानं चान्येनान्तर्दधानीति³ ।१४। अथ
यदनुष्टुभोऽग्नीषोमीयस्य पशोः पुरोनुवाक्या भवन्ति ।१५। गायत्री वै सा यानुष्टुप् ।१६।
गायत्रमग्नेश्छन्दः ।१७। अथ यत् त्रिष्टुभो याज्याः ।१८। क्षत्रस्यैतच्छन्दो⁴ यत् त्रिष्टुप्
।१९। क्षत्रं सोमः ।२०। तद् यथाच्छन्दसं देवते प्रीणाति ।२१। अथ वै पशुमालभ्यमानं
पुरोळाशोऽनुनिरुप्यते⁵ ।२२। मेधो वा एष पशूनां यत् पुरोळाशः ।२३। समेधमेवैनं तद्
यज्ञियं करोति ।२४। अथ यत्र पुरोळाशो⁶ निरुप्यते⁷ ।२५। तत् पुरोळाशस्विष्टकृदच्युतः
।२६। अग्निर्वे स्विष्टकृत् ।२७। तस्मादच्युतो भवति ।२८। वैश्वामित्रीं पुरोळाशस्विष्टकृतः
पुरोनुवाक्यामनूच्य वैश्वामित्र्या यजति ।२९। ततिर्वै यज्ञस्य पुरोळाशः ।३०। वाग् वै
विश्वामित्रः ।३१। वाचा यज्ञस्तायते⁸ ।३२ ॥८॥


¹ IO. BM¹. तस्माद्      ² L. P. Here ends Khaṇḍa 4      ³ IO. ०न्तर्दधाति      ⁴ L. P. ०स्यैवैत०
⁵ L. P. पुरोडाशो निरूप्यते; IO. पुरोळाशं निरूप्यते L. suggests the reading accepted here
⁶ P. पशुपुरो०      ⁷ L. (var.) न निरुप्यते, न निरूप्येत, अनुनिरुप्यते; P. न निरुप्यते      ⁸ L. P. Here ends Khaṇḍa 5

<br>

पृष्ठम् ५१

अथ मनोतामन्वाह ।१। सर्वा ह वै देवताः पशुमालभ्यमानमुपसंगच्छन्ते मम नाम
ग्रहीष्यति¹ मम नाम ग्रहीष्यतीति ।२। तासां सर्वासां पशावेव मनांस्योतानि भवन्ति
।३। ता अत्र प्रीणाति ।४। तथा हासां² सर्वासांममोघायैवोपेसमेतं भवति ।५। तदाहुर्य-
ज्ञानादेवताः पशव आलभ्यन्तेऽथ कस्मादाग्नेयमेवान्वाहेति ।६। त्रिखो वै देवानां मनोताः
।७। अग्निर्वे देवानां मनोता ।८। तस्मिन् ह्येषां मनांस्योतानि भवन्ति ।९। अथो वाग्
वै देवानां मनोता ।१०। तस्यां ह्येषां मनांस्योतानि भवन्ति ।११। अथो गौर्वै देवानां
मनोता ।१२। तस्यां ह्येषां मनांस्योतानि भवन्ति ।१३। अग्निः सर्वा मनोताः ।१४।
अग्नौ मनोताः संगच्छन्ते ।१५। तस्मादाग्नेयमेवान्वाहेति ।१६। ता वै त्रयोदश भवन्ति
।१७। त्रयोदश वै पशोरवदानानि भवन्ति ।१८। त्रिः प्रथमया त्रिरुत्तमया सप्तदश
संपद्यन्ते ।१९। सप्तदशो वै प्रजापतिः ।२०। एतद् वा आर्धुकं³ कर्म यत् प्रजापतिसंमितम्
।२१। सप्तदश सामिधेनीरन्वाह ।२२। सप्तदशो वै प्रजापतिः ।२३। एतद् वा आर्धुकं³
कर्म यत् प्रजापतिसंमितम् ।२४। अथ यत्र पशुरालभ्यते ।२५। तद् वनस्पतिरच्युतः
।२६। अग्निर्वे वनस्पतिः ।२७। स वै देवेभ्यो हविः श्रपयति⁴ ।२८ ॥९॥


¹ IO. ग्रहीष्यतीति      ² P. adds: सर्वासां पशावेव मनांस्योतानि भवन्ति ता अत्र प्रीणाति तथा हासां      ³ L. P. आर्धुकं      ⁴ P. प्रयच्छति

तस्मादच्युतो भवति ।१। स उ वै पयोभाजनः ।२। अत्राग्निः सर्वेषु हविःषु भागी भवति
।३। तदाहुर्यद् धामभाजो देवा अथ कस्मात् पाथोभाग् वनस्पतिरिति ।४। धाम वै देवा
यज्ञस्याभजन्त¹ ।५। पाथः पितरः ।६। पितृदेवत्य इव वै पशुः ।७। पितृदेवत्यं पयः ।८।
तस्मादिति ब्रूयात् ।९। तदाहुः कस्मात् सौम्य एवाध्वरे प्रवृताहुती² जुह्वति न हविर्यज्ञ
इति ।१०। अकृत्वैव वा एषा देवयज्या यद्धविर्यज्ञः ।११। अथैषैव कृत्स्ना देवयज्या यत्
सौम्योऽध्वरः ।१२। तस्मात् सौम्य एवाध्वरे प्रवृताहुती² जुह्वति न हविर्यज्ञ इति ।१३।
जुष्टो वाचो भूयासं जुष्टो वाचस्पतयेऽवि वाक् ।१४। यत् ते वाचो मधुमत्तमं तस्मिन् नो
अद्य³ धाः⁴ स्वाहा सरस्वत्या⁵ इति पुरस्तात् स्वाहाकारेण जुहोति ।१५। वाचं तदुत्सृजते
।१६। तस्माद् वागत ऊर्ध्वोत्सृष्टा यज्ञं वहति ।१७। मनसोत्तराम् ।१८। मनसा हि मनः
प्रीतं⁶ मनः प्रीतम् ⁷।१९ ॥१०॥


¹ L. ०स्यायजन्त      ² P. प्रवृत्ता०      ³ IO. अश्य      ⁴ L. P. धातु      ⁵ IO. सरस्वत्य
⁶ L. P. add मनसा हि      ⁷ L. P. Here ends Khaṇḍa 6

इति प्रथमदशके दशमोऽध्यायः