सामग्री पर जाएँ
सर्वकोश
कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

कात्यायन श्रौतसूत्रम् (शुक्ल यजुर्वेद काण्व-माध्यन्दिनीय श्रौत-कर्मकाण्ड सटीक)

Katyayana Shrautasutram of Shukla Yajurveda with Commentary

महर्षि कात्यायन (भाष्य: याज्ञिक श्रीदेव) द्वारा

DevanagariHindipublished114 पृष्ठ

पृष्ठ 73, कुल 114 में से

संदर्भ में पढ़ें
पृष्ठ 73

देवयाज्ञिकभाष्यसमेतम् । ६७
पालाशी जुहूः ॥१।३।३४॥
हूयतेऽनेनेति जुहूः स्रुक्, सा च पालाशी पलाशवृक्षकाष्ठनिर्मिता भवति ।
“यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लोकꣳ शृणोति” इति श्रुतेः ॥३४॥
आश्वत्थ्युपभृत् ॥१।३।३५॥
उपभृत्संज्ञका स्रुक् आश्वत्थी अश्वत्थकाष्ठघटिता भवति ।
ध्रुवा तु वैकङ्कती भवति “वैकङ्कतानि पात्राणि (३१) इत्यनैवापवादात्
होमसाधनत्वाच्च । तया हि समिष्टयजुर्हूयते “तिष्ठन्नुच्वयै समिष्टयजुर्जुहोति”
इति शाखान्तरश्रुतेः । अत एव मैत्रकठापस्तम्बसूत्रेषु वैकङ्कती ध्रुवेति पठ्यते,
तेषां हि वैकङ्कतानि पात्राणीति सामान्यवचनं नास्ति ॥३५॥
वारRowणान्यहोमसंयुक्तानि ॥१।३।३६॥
होमेन संयुक्तानि, यैर्होमः क्रियते तानि होमसंयुक्तानि न होमसंयुक्तान्य-
होमसंयुक्तानि । यैर्होमो न क्रियते तानि वारुणानि भवन्तीत्यर्थः । परिशेषाद्यानि
होमसंयुक्तानि होमसाधनानि तैर्होमः क्रियते तानि वैकङ्कतानि ।
तत्र वारणान्युदाह्रियन्ते-उलूखल-मुसल-कूर्च-इडापात्री-पिष्टपात्री-पुरो-
डाशपात्री-शम्या-शृतावदान-अभ्रि-उपवेष-अन्तर्धानकट-प्राशित्रहरण-षड-
वत्त-ब्रह्मासन-यजमानासन-होतृषदनानि;
तत्र-उलूखलमुसलयोर्विशेषः “मुसलोलूखले वार्क्षे स्वायते सुदृढे तथा
इच्छाप्रमाणे भवतः शूर्पं वैणवमेव च” इति । तथा “खादिरं मुसलं कार्यं
पालाशः स्यादुलूखलः । यद्दोभौ वारणौ कार्यों तदभावेऽन्यवृक्षजौ” इति ।
कूर्चो बाहुमात्रः पीठाकारः । इडापात्री अरत्निमात्री मध्यसङ्गृहीता ।
तथैव द्वितीया हविर्धारणी पात्री अतिविपुला । पिष्टपात्रीति सैवोच्यते ।
पुरोडाशपात्री प्रादेशमात्री समचतुरस्रा, अर्थात्षडङ्गुलपरिमण्डलखातवती
“लोकाच्छेषस्य प्रतिपत्तिः” इति कठसूत्रात् । शम्या प्रादेशमात्री । प्रादेशमात्रं
तीक्ष्णाङ्गुष्ठपर्वमात्रपृथुमुखं शृतावदानम् । अभ्रिररत्निमात्रास्तीक्ष्णमुखः । उपवे-
षोऽरत्निमात्रः प्रादेशमात्रो वा हस्ताकृतिः । अन्तर्धानकटस्त्वर्धचन्द्राकारो द्वाद-
शाङ्गुलः समाचारात् । प्राशित्रहरणस्य त्वाकारं वक्ष्यति (१-३-४०) षडवत्तं
चोभयत्र खातवत् । आसनानि चारत्निमात्राणि प्रादेशमात्राणि वा प्रादेशमात्र-