कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 934, कुल 1079 में से
संदर्भ में पढ़ें८८४ कथासरित्सागर
तद्विवाहावधौ शेषं मासस्य युगसन्निभम्।
मन्वानो न रतिं लेभे नवोढोत्केन चेतसा ॥२॥
तद्बुद्ध्वा गोमुखमुखात् स्नेहात्तस्य पितान्तिकम्।
वत्सराजः स्वसचिवान् प्राहिणोत्सवसन्तकान् ॥३॥
तद्गौरवात्तद्धैर्ये च तस्मिन् वत्सेश्वरात्मजे।
विवग्धा गोमुखो मन्त्री बसन्तकमुवाच तम् ॥४॥
युवराजमनस्तुष्टिकरीमार्यवसन्तक ।
विचित्रां काञ्चिदाख्याहि कथामभिनवामिति ॥५॥
यशोधरलक्ष्मीधरब्राह्मणभ्रात्रोः कथा
ततो वसन्तको धीमान्कथां वक्तुं प्रचक्रमे।
मालवे धीधरो नाम प्रख्यातोऽभूद्विजोत्तमः ॥६॥
उत्पद्येते स्म तस्य द्वौ सदृशौ यमजौ सुतौ।
ज्येष्ठो यशोधरो नाम तस्य लक्ष्मीधराऽनुजः ॥७॥
यौवनस्थं च तौ विद्याप्राप्तये भ्रातरावुभौ।
देशान्तरं प्रतस्थाते सहितौ पितुराज्ञया ॥८॥
क्रमात् पथि व्रजन्तौ च प्रापतुस्तौ महाटवीम्।
अजलामतारुच्छायां सन्तप्तसिकतास्थिताम् ॥९॥
तत्र यान्तौ परिक्लान्तावातपेन तृषा च तौ।
एकं सफल्सच्छाद्यं साय सम्प्रापतुस्तरुम् ॥१०॥
मूले तस्य तरोश्चैकां वापीं पृथुमवस्थिताम्।
शीतस्वच्छद्रुतसलिलीं कमलामोदवासिताम् ॥११॥
तस्यां स्नात्वा कृताहारौ पीतशीताम्बुनिर्वृतौ।
पिनागङ्गारविष्टौ च क्षणं विश्राम्यत स्म तौ ॥१२॥
अस्नं गते रवौ सन्ध्यामुपास्य प्राणिनां भयात्।
नतुं निशां भ्रातरो तौ समारुहदतुस्तरुम् ॥१३॥
निशाक्षणे च तत्रायात् पाश्यास्तस्मान्नभान्तरम्।
उद्गच्छन्ति स्म पुरुषा बहवः पल्लवासनाः ॥१४॥
यथा वाचालयन् बुद्धिवद्भूमिगतो दक्षिणानिलम्।
सचिन्त्य तत्र पुण्यानि पञ्चबाणोव्यवारयन् ॥१५॥