सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 932, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 932

८८२ कथासरित्सागर
तत्त्वयोत्पलमालैका नानीता चेत्कुतोऽपि मे।
तन्न भार्यास्मि ते नापि भर्त्ता मम भवानिति॥२२७॥
खर्वस्तद्दर्पो रात्रौ स राजकीयसरो ययौ।
तत्र प्रविष्टश्च कोऽसीति दृष्ट्वापृच्छत्तं रक्षकः॥२२८॥
चक्रवाकोऽस्मीति च वदन् बद्ध्वा नीतः प्रगे स तैः।
राज्ञाग्रे पृच्छ्यमानश्च चक्रवाकरुतं व्यधात्॥२२९॥
ततः स राजा हसितः स्वयं पृष्टोऽनुबन्धिना।
मूर्खः कश्चित्सवृत्तान्तो मुक्तो दीनो यथाहतः॥२३०॥
कश्चिच्च मूर्खभीषक् केनाप्युक्तो द्विजन्मना।
क्रकचं मम पुत्रस्य कुब्जस्याभ्यन्तरं नय॥२३१॥
एतच्छ्रुत्वाब्रवीद्वैद्यो दश देहि पणान् मम।
ददामि ते दशगुणान्साधयामि न चेदिदम्॥२३२॥
एवं कृत्वा पणं तस्माद् गृहीत्वा तान् पणान्द्विजात्।
स च स्वदाविभिः कुब्जमभजत्केवलं भिषक्॥२३३॥
न चाशकत् स्पष्टयितुं ददौ दशगुणान् पणान्।
को हि कुब्जमृजूकर्तुं शक्नुयादिह मानुषम्॥२३४॥
हासायैवाशक्यार्थप्रतिज्ञानविकत्थनम् ।
तदीदृशैर्मूढमार्गे सञ्चरेत न बुद्धिमान्॥२३५॥
इति भद्रमुखात्स गोमुखात्ख्यातसचिवा मुग्धकथा निशम्य रात्रौ।
नरवाहनदत्तराजापुत्रः सुमतिः प्रीतमनास्तुतोष तस्मै॥२३६॥
अभजच्च स तत्कथाविनोदान्छनकः शक्तियशःसमुत्सुकोऽपि।
शयनीयमुपागतोऽथ निद्रां सवयोभिः सहितो निजैर्वयस्यैः॥२३७॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोलम्बके
षष्ठस्तरङ्गः।
सप्तमस्तरङ्गः
गोमुखकथिता नवा मधुरा कथा।
ततः प्रातः प्रबुद्धस्तां स शक्तियशसं प्रियाम्।
नरवाहनदत्तोऽत्र ध्यायन् व्याकुलतां ययौ॥१॥