सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 903, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 903

८५४ कथासरित्सागर
तस्य यूथेन शशका गाहमानेन तत्र ते ।
शिलीमुखस्य बहवः शशराजस्य चूर्णिताः ॥३१॥
ततो गजपतौ तस्मिन् गते सोऽत्र शिलीमुखः ।
दुःखितो विजयं नाम शशं प्राह्याससन्निधौ ॥३२॥
लब्धास्वादो गजेन्द्रोऽयं पुनः पुनरिहैष्यति ।
निःशेषयिष्यत्यस्मांश्च तदुपायोऽत्र चिन्त्यताम् ॥३३॥
गच्छ तस्यान्तिकं पश्य युक्तिः काप्यस्ति चेन्न वा ।
त्वं हि कार्यमुपायं च वेत्सि वक्तुं च युक्तिमान् ॥३४॥
यत्र यत्र गतस्त्वं हि तत्र तत्राभवच्छुभम् ।
इति स प्रेषितस्तेन प्रीतस्तत्र ययौ शनैः ॥३५॥
मार्गानुसारात् प्राप्तं च वारेन्द्रं ददर्श तम् ।
यथा तथा च युक्तं स्यात् सङ्गो बलिनेति सः ॥३६॥
शशोऽद्रिशिखरासङ्गो धीमांस्तमवदद् गजम् ।
अहं देवस्य चन्द्रस्य दूतस्त्वां चवमाह सः ॥३७॥
शीतं चन्द्रसरो नाम निवासोऽस्ति सरो मम ।
तत्रासते शशास्तेषां राजाऽहं ते च मे प्रियाः ॥३८॥
अत एवास्मि शीतांशू शशी चेति गतः प्रभाम् ।
तत्सरो नाशितं ते च शशका मे हतास्त्वया ॥३९॥
भूयः कर्तासि चेदेवं मत् प्राप्स्यसि तत्फलम् ।
एतद्दूताच्छशाच्छ्रुत्वा गजेन्द्रः सोऽब्रवीद् भयात् ॥४०॥
नैवं करिष्ये भूयोऽहं मान्यो मे भगवान्छशी ।
तदेहि दर्शयामस्ते यावत् प्रार्थये सखे ॥४१॥
इत्यूचिबान् स नागेन्द्रमानीय सरसोऽन्तरे ।
तत्र तस्मै धणश्चन्द्रप्रतिबिम्बमदर्शयत् ॥४२॥
तद्दृष्ट्वा दूरतो मत्वा भयात् कम्पसमाकुलः ।
नतं द्विपैन्द्रं स ययौ भूयस्तत्र न चाययौ ॥४३॥
प्रत्यक्षं तच्च दृष्ट्वा स शशराजः शिलीमुखः ।
सम्मान्य तं शशं दूतमवसत्तत्र निर्भयः ॥४४॥
इत्युक्त्वा वायसो भूयः पक्षिणस्तानभाषत ।
एवं प्रभुः स्वनाम्नैव मस्य कश्चिन्न बाधते ॥४५॥