कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 865, कुल 1079 में से
संदर्भ में पढ़ेंउपेत्य पृष्ट्वा वृत्तान्तं सम्भ्रमात् सोऽपि मूषकः।
पारावतपतेः पाशान् सानुगस्याच्छिनत् सुहृद् ॥७०॥
छिन्नपाशस्तमामन्त्र्य मूषकं वचनेः प्रियैः।
चित्रग्रीवः समुत्पत्य ययौ सोऽनुचरैः सह ॥७१॥
अन्वागतः स काकोऽत्र लघुपाती विलोक्य तत्।
बिलप्रविष्टं तद्द्वारमागत्योवाच मूषकम् ॥७२॥
लघुपातीति काकोऽहं दृष्ट्वा त्वां मित्रवत्सलम्।
मित्रत्वाय वृणोमीदृग्विषदुद्धरणक्षमम् ॥७३॥
तच्छ्रुत्वाऽभ्यन्तराद्दृष्ट्वा मूषकस्तं स वायसम्।
जगाद गच्छ का मैत्री भक्ष्यभक्षकयोरिति ॥७४॥
तत स वायसोऽप्यावीच्छान्तं भुक्ते मम त्वयि।
तृप्तिः क्षण स्यान्मित्रं तु शश्वज्जीवितरक्षणम् ॥७५॥
इत्याद्युक्त्वा सशपथं कृत्वादश्वासं च तेन सः।
निर्गतेनाकरोत्सख्यमाशुना सह वायसः ॥७६॥
स मांसपक्षीरान्नेपीदास क्षालिकजानपि।
एकत्र सह भुञ्जातौ तस्थातुस्तावूभी सुखम् ॥७७॥
एकदा स च काकस्तं मित्रं मूषकमब्रवीत्।
इतोऽविदूरे मित्रास्ति वनमध्यगता नदी ॥७८॥
तस्यां मन्थरको नाम कूर्माऽस्ति सुहृन्मम।
तदहं यामि तत्स्थानं सुप्रापामिषभाजनम् ॥७९॥
कृच्छ्रात्प्राप्य इहाहारो नित्यं व्याधभयं च मे।
इत्युक्तवन्तं तं काकं मूषकोऽपि जगाद सः ॥८०॥
: सहव तर्हि वह्स्यामो नय तत्रैव मामपि।
ममाप्यस्तीह निर्वेदो यस्य सत्रव तं च ते ॥८१॥
इति वादिनमादाय चञ्च्वा तं स हिरण्यकम्।
सप्रभा लघुपाती तद्ययौ वननदीतटम् ॥८२॥
मिलित्वा सह कूर्मेण तेन मन्थरेण च।
कृतातिथ्येन मित्रण स तस्थौ मूषकन्वितः ॥८३॥
शशंस च कूर्माय तस्मै स्वागमकारणम्।
हिरण्यकप्रवृत्तान्तप्रयुक्तं वायः शशंस च ॥८४॥