कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 67, कुल 1079 में से
संदर्भ में पढ़ें४६ कथासरित्सागर
तत्क्षणं लब्धसंस्पर्शं व्यक्तकङ्कणनिस्वनं ।
जग्राह हस्तं हस्तेन स तस्यास्त्वं वणिक्सुतः ॥१७॥
महाभागापराद्धं ते किं मया मुञ्च मे करम् ।
इत्यदृश्यैव तं विद्याधरी स्तम्भादुवाच सा ॥१८॥
प्रत्यक्षा ब्रूहि मे का त्वं ततो मोक्ष्यामि ते करम् ।
इति निश्चयदत्तोऽपि प्रत्युवाच स तां ततः ॥१९॥
प्रत्यक्षभूत्वा सर्वं ते वच्मीति शपथोत्तरम् ।
विद्याधर्या तथोक्ताञ्च करं तस्या मुमोच सः ॥२०॥
अथ स्तम्भाद्विनिर्गत्य साक्षात्सर्वाङ्गसुन्दरी ।
तन्मुखासक्तनयना तं जगादोपविश्य सा ॥२१॥
अस्ति प्रालेयशैलान्ते नगरी पुष्करावती ।
नाम्ना विन्ध्यपरस्तस्यामास्ते विद्याधराधिपः ॥२२॥
अनुरागपरा नाम तस्याहं कन्यका सुता ।
महाकालार्चनायाता विश्रान्तास्मीह सम्प्रति ॥२३॥
तावच्च त्वमिहागत्य कुर्वन्पृष्ठविलेपनम् ।
दृष्टः स्तम्भेऽत्र मारीय¹ मोहागान्त्रोपमो मया ॥२४॥
तव प्रागनुरागेण रञ्जितं स्वान्तरात्मनः ।
पश्चात्पृष्ठविलेपिन्या अङ्गरागेण ते करः ॥२५॥
अतः परं त्वां विदित्वा चलितुमीहे सम्प्रति ।
गच्छामीति तयोक्तोऽथ वणिक्पुत्रो जगाद सः ॥२६॥
स्वीकृतं तन्मया चण्डि न स्वान्तं भवतीकृतम् ।
अमुक्तस्वीकृतान्तान्तः कथमद्य तु गच्छसि ॥२७॥
इति तेनोदिता सा च मधुरागणवशीकृता ।
सङ्गमिष्ये त्वया काममप्यस्यामस्मत्पुरी यदि ॥२८॥
दुर्गमा सा न ते नाथ सेत्स्यते ते समीहितम् ।
नहि दुष्करमस्तीह किञ्चिद्व्यवसायिनाम् ॥२९॥
इत्युदीर्य गमुत्पत्य चानुरागपरा ययौ ।
अगाद्रिश्चयदत्तोऽपि ग तद्गतमना गृहम् ॥३१॥
─────────────────────────────────────────
१ माराय कामप्राय इदं मारीयं काम सम्बन्धि।