कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 47, कुल 1079 में से
संदर्भ में पढ़ें२८ कथासरित्सागर
आरुह्योपनतं स च यथादिष्टः स विष्णुना।
तया विजित्य पृथिवीमाजह्रे राजकन्यकाः ॥२०॥
सहस्राशीतिसंख्याभिस्ततस्ताभिः समं च सः।
उवास रत्नकूटेऽत्र यथेच्छं विहरन्नृपः ॥२१॥
शान्त्यर्थं शीतरश्मेश्च तस्य दिव्यस्य दन्तिनः।
प्रत्यहं भोजयामास विप्राणां शतपञ्चकम् ॥२२॥
कदाचिच्च तमारुह्य परिभ्रम्य स भूपतिः।
द्वीपान्तराणि स्वं द्वीपं रत्नाधिपतिराययौ ॥२३॥
तत्रावतरतस्तस्य गगनात्तु गजोत्तमम् ।
चञ्च्वा तार्क्ष्योद्भवः पक्षी मूर्ध्नि दैवादताडयत् ॥२४॥
स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः।
हस्ती तु भूमावपतच्चञ्च्वाघातेन मूर्च्छितः ॥२५॥
मुपेजातीर्णं स गजो लब्धसंज्ञोऽपि माद्यकन्।
उत्थाप्यमानोऽप्युत्थातुं निरस्तकबलप्रग्रहः ॥२६॥
पञ्चाहानि तथैवास्मिन्वारणे पतितस्थिते।
दुःखितः स निराहारो राजा चाप्यवमब्रवीत् ॥२७॥
भो लोकपाला ब्रूतास्मिन्नुपायः सङ्कटे मम।
अद्यैवोपहरिष्यामि छित्त्वाहं स्वशिरोऽथ वः ॥२८॥
इत्युक्त्वैवात्तखङ्गं तं स्वशिरश्छेत्तुमुद्यतम्।
अशरीरा जगादेव वाणी तत्क्षणमम्बरात् ॥२९॥
मा साहसं कृथा राजन्साध्वी काचित्करोति यत्।
हस्तस्पर्शं गजस्यास्य तदुत्तिष्ठति नान्यथा ॥३०॥
सच्छ्रुत्वैवामृतलतां नाम दृष्टः स भूपतिः।
मुख्यामानाययामास निजां देवीं सुरक्षिताम् ॥३१॥
तया स्पृष्टः स हस्तेन नोदतिष्ठद् गजो यदा।
तदा सोऽन्या निजाः सर्वा देवीरानाययन्नृपः ॥३२॥
ताभिः कृतकरस्पर्शः समस्ताभिरपि क्रमात्।
नैवोत्तस्थौ द्विपः सोऽत्र न तास्वेकाप्यभूत्सती ॥३३॥
१ भोजनेप्यसमर्थः।