कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 45, कुल 1079 में से
संदर्भ में पढ़ें२८ कथासरित्सागर
आरुह्योपनतं तं च यथादिष्टं स विष्णुना।
तथा विजित्य पृथिवीमाजह्रे राजकन्यकाः ॥२०॥
सहस्राशीतिसंख्याभिस्ततस्ताभिः समं च सः।
उवास रत्नकूटेऽत्र यथेच्छं विहरन्नृपः ॥२१॥
शान्त्यर्थं शीतरश्मेश्च तस्य दिव्यस्य दन्तिनः।
प्रत्यहं भोजयामास विप्राणां शतपञ्चकम् ॥२२॥
कदाचिच्च समासाद्य परिभ्रम्य स भूपतिः।
द्वीपान्तराणि स्वं द्वीप रत्ननाभिपत्तिराययौ ॥२३॥
तत्रावतरतस्तस्य गगनात्तु गजोत्तमम्।
चञ्च्वा तार्क्ष्यावभवः पक्षी मूर्ध्नि चैवावताडयत् ॥२४॥
स च पक्षी प्रदुद्राव राज्ञा तीक्ष्णाङ्कुशाहतः।
हस्ती तु भूमावपतच्चञ्च्वाघातेन मूर्च्छितः ॥२५॥
नृपेऽवतीर्णे स गजो लब्धसंज्ञोऽपि नाग्रहीत्।
उत्थाप्यमानोऽप्युत्थातुं निरस्तकवलग्रहः ॥२६॥
पञ्चाहानि यथैवास्मिन्वारणे पतितस्थिते।
दुःखितः स निराहारो राजा चाप्येवमब्रवीत् ॥२७॥
भो लोकपाला भूतास्मिन्नुपार्यं सङ्कटे मम।
अन्यमोपहरिष्यामि छित्त्वाहं स्वशिरोऽद्य वः ॥२८॥
इत्युक्त्वैवासलग्नोऽतं स्वशिरश्छेत्तुमुद्यतम्।
अशरीरा जगादैवं वाणी तत्क्षणमम्बरात् ॥२९॥
मा साहस कृथा राजन्साध्वी काचित्करोति चेत्।
हस्तस्पर्शं गजस्यास्य सदुत्तिष्ठति नान्यथा ॥३०॥
तच्छ्रुत्वैवामृतलतां नाम दृष्ट्वा स भूपतिः।
मुख्यामानाययामास निजां देवीं सुरक्षिताम् ॥३१॥
तया स्पृष्टः स हस्तन नोत्तिष्ठद् गजो यदा।
तदा सोऽन्या निजाः सर्वा देवीरानाययन्नृपः ॥३२॥
ताभिः कृतकरस्पर्शः समस्ताभिरपि क्रमात्।
नैवोत्तस्थौ द्विपः सोऽत्र न तास्वेकाप्यभूत्सती ॥३३॥
१ नोऽन्येष्यासन्नपर्वः।