कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 423, कुल 1079 में से
संदर्भ में पढ़ें१८८ कथासरित्सागर
नेदं रक्षाविनुतं तद्धस्त्यायुस्सत्रपावहम् ।
मित्रगोष्ठी रङ्ग्येषा स्ववैदग्ध्यप्रदर्शिनी ॥१४॥
न चाहं भवतो राजा त्वं मे मित्रं निमन्त्रणम् ।
तन्नाद्य भोक्ष्ये भावत्कमबुद्ध्वा नृत्तकौतुकम् ॥१५॥
इति बद्धग्रहे राज्ञि स विप्रोऽङ्गीचकार तत् ।
कथं हि रुद्ध्यते भृत्यैर्गेहिकस्य प्रभोर्वचः ॥१६॥
ततः स गुणशर्मात्र ननर्त्ताङ्गैर्यथा तथा।
राजा राज्ञी च चित्तेन तौ द्वौ ननृततुर्यथा ॥१७॥
तदन्ते च ददौ राजा वाद्यनायास्य वल्लकीम् ।
तस्यां च सारणामथ दददेवात्रवीन्नृपम् ॥१८॥
देवाप्रशस्ता वीजेयं तदन्या दीयतां मम ।
अस्यास्तन्त्र्यां यदेतस्यां शववालो विधेऽन्तरे ॥१९॥
नाहं ह्येतद्विजानामि तन्त्रीभागुरलक्षणे ।
इत्युक्त्वा गुणशर्म्माङ्गातां विपञ्चीं मुमोच सः ॥२०॥
ततः स छिन्त्वा तन्त्रीं तां यावद्बुद्ध्वेक्ष्य भूपतिः ।
वीक्षते निरगात्तावदन्तस्तत्पृशमंतः शुनः ॥२१॥
ततः सर्व्वज्ञतां तस्य प्रशंसन् सोऽतिविस्मितः ।
वीणामानाययामास महासेनन्नृपोज्झराम् ॥२२॥
तां स वादितवान्गायन्गुणशर्म्मा त्रिमागंराम् ।
गङ्गामिवौघसुभगां कर्णपावननिःस्वनाम् ॥२३॥
ततद्विस्मीयमाणाय राज्ञे तस्मै सजानये ।
दर्शयामास शस्त्रास्त्रविद्या अपि स सत्क्रमात् ॥२४॥
अथावोचत्स राजा तं नियुद्धं यदि वेत्सि तत् ।
एकं मे बन्धकरणं शून्यहस्तः प्रदर्शय ॥२५॥
गृहाण देव शस्त्राणि मयि प्रहर च क्रमात् ।
यावत्ते दर्शयामीति स विप्रः प्रत्युवाच तम् ॥२६॥
ततः स राजा खङ्गादि यद्यदायुधमग्रहीत् ।
तत्तत्प्रहरतस्तस्य गुणशर्माविहेलया ॥२७॥
तेनैव बन्धकरणेनापहृत्यापहृत्य सः ।
अयच्छद्राज्ञो हस्तं च गात्रं चाप्यक्षतो मुहुः ॥२८॥