कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 359, कुल 1079 में से
संदर्भ में पढ़ें३९८ कथासरित्सागर
सूर्यप्रभामितबल सिद्धमेतद्धनुस्तव ।
अच्छेद्यश्च गुणोऽप्येष रत्ने एते गृहाण तत् ॥९५॥
इत्यभावि च वाग्दिव्या पुष्पवृष्टिपुरःसरा ।
सूर्यप्रभश्च सगुणं धनूरत्नं तदग्रहीत् ॥९६॥
श्रुतशर्माप्यमाद्विग्नः सानुगः स तपोवनम् ।
सूर्यप्रभोऽथ सर्वे च हर्षमापुर्महाधियः ॥९७॥
पृष्टोऽथ धनुरुत्पत्तिं तैः सुमेरुरुवाच सः ।
इह कीचकवेणूनां दिव्यमस्ति वनं महत् ॥९८॥
सद्यो ये कीचकाश्छित्त्वा क्षिप्यन्तेऽत्र सरोवरे ।
महान्त्येतानि दिव्यानि सम्पद्यन्ते धनूंषि ते ॥९९॥
साधितानि च तान्येव दृप्तैस्तैस्तैः पुरातनैः ।
असुरैरथ गन्धर्वैस्तथा विद्याधरोत्तमैः ॥१००॥
भिन्नानि तेषां नामानि चक्रवर्तिष्वमूंषि तु ।
भत्रामृतबलाख्यानि निक्षिप्तानि पुरा सुरैः ॥१०१॥
तानि चैतैः परिक्लेशैः सिध्यन्ति शुभकर्मणाम् ।
कदाचिद्विश्वरेच्छातः भविष्यच्चक्रवर्तिनाम् ॥१०२॥
तच्च सूर्यप्रभस्यैतत् सिद्धमद्य महद्धनुः ।
स्वोचितानि वयस्यास्तत् साधयन्त्वस्य तान्यमी ॥१०३॥
येषां हि सिद्धविद्यानां वीराणामस्ति योग्यता ।
यथामुरूपं भव्यानां सिध्यन्त्यद्यापि तानि हि ॥१०४॥
एतद् सुमेरुवचनं श्रुत्वा सूर्यप्रभस्य ते ।
वयस्याः कीचकवनं तत् प्रभासाद्यो ययुः ॥१०५॥
तद्रक्षकं च राजानं चण्डदण्डं विजित्य ते ।
आनीय कीचकांस्तत्र निक्षिप्युः सरसोऽन्तरे ॥१०६॥
तत्तीरोपोषितानां च जपतां जुह्वतां तथा ।
सिध्यन्ति स्म धनूंष्येषां सप्ताहात् सत्यशालिनाम् ॥१०७॥
प्राप्तैस्तैस्तत्त्ववृत्तान्तैर्मयाद्यैश्च सहाय सः ।
आगात् सूर्यप्रभस्तावत् तत् सुमेरोस्तपोवनम् ॥१०८॥
तत्रोवाच सुमेरुस्तं जितो वेणुवनेश्वरः ।
त्वन्मित्रैश्चण्डदण्डो यवजेयोऽपि तदद्भुतम् ॥१०९॥