सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 357, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 357

३२६ कथासरित्सागर
श्रुतशर्मणि यातेऽथ विद्याधरबलान्विते ।
एत्य सूर्यप्रभं दूतस्तदीय इदमभ्यधात् ॥८०॥
त्वां समादिशति धीमाञ्छ्रुतशर्मा प्रभुर्यथा ।
समर्पयेहस्तूणं मे कार्यं चेज्जीवितेन ते ॥८१॥
सूर्यप्रभोऽथ प्रत्याह दूतेव ब्रूहि गच्छ तम्।
स्वचेह एव भविता तूर्णस्ते मन्दरायुधः ॥८२॥
एतत्प्रतिवचः श्रुत्वा गते दूते पराङ्मुखे ।
प्राहसन् रभसोक्तिं तां सर्वे ते श्रुतशर्मणः ॥८३॥
सूर्यप्रभोऽथ सानन्दमाश्लिष्योने सुमेरुणा।
दिष्ट्याद्य शाम्भवं वाक्यं फलितं तदसंशयम् ॥८४॥
तूणरत्ने हि सिद्धेऽस्मिन्सिद्धा ते चक्रवर्तिता ।
तदेहि साधयेदानीं धनूरत्नं निराकुरु ॥८५॥
एतत्सुमेरोः श्रुत्वा ते तस्मिन्नेवाप्रयायिनि ।
सूर्यप्रभादयो जग्मुर्हेमकूटाचलं तत ॥८६॥
पार्श्वे तस्योत्तरे ते च मानसाख्यं सरोवरम् ।
प्रापुः समुद्रनिर्माभे विधातुरिव वर्णकम् ॥८७॥
मुखानि दिव्यनारीणां क्रीडन्तीनां जलान्तरे ।
निह्नुवानं मधूद्भूतैरुत्फुल्लैः कनकाम्बुजैः ॥८८॥
अवलोकयन्ति यावच्च सरसस्तस्य ते श्रियम् ।
तावत्तमाययुः सर्वे श्रुतशर्मादयोऽपि ते ॥८९॥
तत सूर्यप्रभस्ते च होमं चक्रुर्घृताम्बुजैः ।
क्षणाच्चात्रोग्रवायुर्धोरो मेघस्तस्मात् सरोवरात् ॥९०॥
स व्याप्य गगनं मेघो महद्वर्षमवासृजत् ।
तन्मध्ये च पपातैको नागः कालोऽम्बुदात्ततः ॥९१॥
सुमेर्वाक्यादुत्थाय गाढं सूर्यप्रभेण यत् ।
गृहीतो विध्यमानोऽपि ततः नागो भवद्धनुः ॥९२॥
तस्मिन् धनुष्ट्वमापन्ने द्वितीयोऽभ्रात्ततोऽपतत् ।
नागो विषाग्नित्रासात्तस्योच्चैरेववेष्टकः ॥९३॥
सोऽपि सूर्यप्रभेनाशु गृहीतस्तेन पूर्ववत्।
धनुर्गुणत्वं सम्प्राप मेघश्चाशु मनाक्ष सः ॥९४॥