सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 299, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 299

२७ कथासरित्सागर
तत्राप्यसह्यं तत्तेजः सविशेषं क्रमाद्यदा ।
तदा विघ्नाय तस्येन्द्रः प्रजिघाय सुराङ्गनाः ॥८९॥
स धीरो लोभयन्तीस्ता न तृणायाप्यमन्यत ।
निसृष्टार्थं¹ ततस्तस्मै मृत्युं विससृजुः सुराः ॥९०॥
उपेत्य स तमाह स्म ब्रह्मन् मर्त्यैरियञ्चिरम् ।
न जीव्यत तदात्मानं त्यज मा रुङ्क्ष्य स्थितिम् ॥९१॥
तच्छ्रुत्वा स द्विजोऽवादीद्यदि पूर्णो ममावधिः ।
आयुस्तन्न कस्मान्मां नमसे किं प्रतीक्षसे ॥९२॥
स्वयं च नाहमात्मानं त्यजेयं पाशहस्त र ।
आत्मघाती भवेयं च शरीरं कामतस्त्यजन् ॥९३॥
इत्युक्तवन्तं तं नेतुं प्रभावान्नाशकद्यदा ।
तदा पराङ्मुखो मृत्युर्जगाम स यथागतम् ॥९४॥
ततो विजितकालं तं शक्रः साक्षाद्ययौ द्विजम् ।
बलादुत्क्षिप्य बाहुभ्यां निनायेन्द्रः सुरालयम् ॥९५॥
तत्र तद्भोगविमुखो जपादविरमंश्च सः ।
देवावतारितो भूयस्तमेवागाद्विमाश्रयम् ॥९६॥
तत्रापीन्द्रादया भूयो वरार्थं तोषयन्ति तम् ।
यावत्सावन्नृपस्तेन मार्गेणेक्ष्वाकुराययौ ॥९७॥
स तद्दृष्ट्वा यथावस्तु जापकं तमभाषत ।
देवेभ्यद्येव गृह्णासि वरं मत्तो गृहाण भो ॥९८॥
तच्छ्रुत्वा स विहस्यैनं जापकोऽभ्यवदन्नृपम् ।
त्वं शक्तो वरदाने मे त्रिदशेभ्योऽप्यगृह्णतः ॥९९॥
इत्यूचिवांसं तं विप्रमिक्ष्वाकुः प्रत्युवाच सः ।
शक्तो न तदहं दातुंस्त्वं मम तर्हेहि म वरम् ॥१००॥
ततः स जापकोऽवादीद्यत्तेऽभीष्टं वृणीष्व तत् ।
दास्याम्यथति तच्छ्रुत्वा राजान्तश्चिन्तयन् सः ॥१०१॥
महं ददामि विप्राभ्यं गृह्णातीत्युषिता विधिः ।
विपरीतमिदं गृह्णाम्यहमयं ददाति यत् ॥१०२॥
१ वृत्तमिष्टार्थं ।