सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 295, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 295

२६६ कथासरित्सागर
तस्माद्विकल्पो मा भूद्वः प्रत्युतैष भूपो महत्।
दिव्यं शरीरमाप्नोति जरारोगविवर्जितम् ॥६२॥
यूयं च दानवाः सर्वे प्रविश्यैभ रसातलम्।
सुधापानेन नीरोगदिव्यदेहा भविष्यथ ॥६३॥
एतन्मयासुरवचः श्रुत्वा सर्वे तथेति ते।
शङ्कातप्यपरित्यक्तशङ्कास्तत्प्रतिपेदिरे ॥६४॥
तद्वाक्येन च सोऽप्येवमिलिताखिलराजनकः।
चन्द्रप्रभश्चन्द्रभागेरावत्योः सङ्गमं ययौ ॥६५॥
तत्रावस्थाप्य नृपतीन् बहिनिक्षिप्य तेषु सः।
सूर्यप्रमावरोधांस्तानुरेष्य मयदर्शितम् ॥६६॥
विवेश विवरं सोऽथ सह सूर्यप्रभेण सः।
चन्द्रप्रभः समं देव्या सिद्धार्थेशैश्च मन्त्रिभिः ॥६७॥
प्रविश्य गत्वा दीर्घं च तेनाध्वानं ददर्श सः।
दिव्यं देवकुलं तच्च सर्वैः सह विवेश तैः ॥६८॥
तावच्च ये स्थितास्तत्र राजानो विवराद्बहिः।
तेषां विद्याधरा व्योम्ना सैन्यैः सह समापतन्¹ ॥६९॥
ते तान्संस्तम्भ्य मायाभिर्भार्याः सूर्यप्रभस्य ताः।
अहुरंस्तत्क्षणं चावमुदगाद् भारती दिवः ॥७०॥
श्रुतशर्म्न्नरे पाप यद्येताश्चक्रवर्तिनः।
भार्याः स्पृश्यसि तत्सद्यः ससैन्यो मृत्युमाप्स्यसि ॥७१॥
तस्मान्मासुवदतास्त्वं पश्यन् रक्षे सगौरवम्।
अधुनैव न हत्वा त्वां यदेता मोषिता मया ॥७२॥
समास्ति कारणं किञ्चित्तत्तिष्ठन्त्वत्र सम्प्रति।
इत्युक्ते दिव्यया वाचा खचरास्ते तिरोदधुः ॥७३॥
राजानस्ते च मीढास्ता दृष्ट्वा वीरभटादयः।
आसन्नान्योन्ययुद्धेन दहत्याग कृतोद्यमाः ॥७४॥
मैतानामस्ति विश्वस्तः प्राप्स्यथैताः सुताः पुनः।
तस्याह्वं न युष्माभिः कार्य पश्चाणमस्तु वः ॥७५॥
१ आक्रमणं चक्रुरित्यर्थः।