सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 231, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 231

२०२ कथासरित्सागर
विक्रिता सङ्गतान्येन मूर्खा तस्य कथं पुनः।
भार्या भवामि निर्लज्ज स यथा किमहं तथा॥९५॥
यूयमेव मम ब्रूत यदेतच्छोभतेऽधुना।
तद्धात् येन क्रीतास्मि स एव हि पतिर्मम ॥९६॥
इत्युक्तास्ते तया भृत्यास्ततो गत्वा तमैव तत्।
अब्रुवन्नर्थलोभाय वाक्यं तस्या अधोमुखाः॥९७॥
स तच्छ्रुत्वा बलादेच्छादानेतुं तां नराधमः।
ततो शूरबलो नाम वयस्यस्तमभाषत॥९८॥
न सा सुलधनात्तस्मादानेतुं शक्यते त्वया।
प्रवीरस्य न तस्याग्रे तव पश्यामि धीरताम्॥९९॥
स हि त्यागानुरागिण्या नार्या शूरीकृतस्तया।
बली च बलिभिर्जन्यैर्युक्तो मित्रैः सहागतैः॥१००॥
त्वं तु कार्पण्याक्रीतविविक्तदयिताज्झितः।
अवमाननिरुत्साहो गर्हितः क्लीबतां गतः॥१०१॥
न च स्वतः बली तावृद्ध न च मित्रबलान्वितः।
तत्कथं त्वं समर्थः स्यास्तस्य प्रत्यर्थिनो जये॥१०२॥
राजा च कुप्येद् बुद्ध्वा ते दारविक्रयदुष्कृतम्।
तत्तूष्णीं भव भूयोऽपि मा कृथा हास्यविभ्रमम्॥१०३॥
इति सख्या निषिद्धोऽपि क्रोधाद् गत्वा ससैनिकः।
यावद् रुणद्ध्यर्थलोभो गृहं सुलधनस्य स ॥१०४॥
तावत्तस्य समित्रस्य सैन्यैः सुलधनस्य तत्।
सैन्यं तदीयं निर्गत्य कृत्स्नं भग्नमभूत्क्षणात् ॥१०५॥
ततः पलायितः प्रायात्सोऽर्थलोभो नृपान्तिकम्।
दाराः सुलधनाख्येन वणिजा देव मे हृताः॥१०६॥
इति व्यजिज्ञपत्तत्र नृपं निहुतदुर्नयः।
नृपोऽप्यैच्छदवष्टब्धुं स तं सुलधनं रुषा॥१०७॥
ततः सम्भाजनामा तं मन्त्री राजानमब्रवीत्।
यथा तथा न शक्योऽसाववष्टब्धुं वणिक्प्रभो॥१०८॥
तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि।
सङ्खमभ्यधिकं देव वर्तते वरवाजिनाम् ॥१०९॥