सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 179, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 179

१५४ कथासरित्सागर
युवराजा हि बहवो गता पुत्रा पितुस्तव ।
न राज्यं केनचित्प्राप्तं प्राप्तं सर्वैर्विडम्बनम् ॥३२॥
नागार्जुनेन दत्तं हि तद्राज्ञेऽन्नं रसायनम् ।
वयो वर्षशतं येन प्राप्तमस्येदमष्टमम् ॥३३॥
को जानाति कियन्त्यन्यान्यपि प्राप्स्यन्ति च क्रमात् ।
युवराजाञ्श्वपस्यास्य कुर्वतोऽप्यायुषः सुतान् ॥३४॥
एतच्छ्रुत्वा विषण्णं तं पुत्रं सा पुनरब्रवीत् ।
यदि राज्येन ते कृत्यं तदुपायमिमं कुरु ॥३५॥
एष नागार्जुनो मन्त्री प्रत्यहं विहिताह्निकः ।
आहारसमये दाता करोत्युद्घोषणाभिमाम् ॥३६॥
कोऽर्थी प्रार्थयतां कः किं तस्मै किं दीयतामिति ।
स्वशिरो मे प्रयच्छेति तत्काल ब्रूहि गच्छ तम् ॥३७॥
सत्यवाचि ततस्तस्मिञ्छिद्रमूर्ध्नि मृते नृपः ।
तच्छोकाल्पचेतां यायाद्वनं चैष समाश्रयेत् ॥३८॥
ततः प्राप्स्यसि राज्यं त्वमुपायोऽन्योऽत्र नास्ति ते ।
इति मातुर्वचः श्रुत्वा राजपुत्रस्तुतोष सः ॥३९॥
तथेति तद्विधातुं च चकारैव स निश्चयम् ।
कष्टो हि बान्धवस्नेहं राज्यलोभोऽतिवर्तते ॥४०॥
अथ राजसुतोऽन्येद्युः स्वैरं जीवहरो ययौ ।
तस्य भोजनवेलायां गृहं नागार्जुनस्य सः ॥४१॥
कः किं याचत इत्यादि तदा सत्रं च मन्त्रिणम् ।
वदन्तं तं प्रविश्यैव स मूर्धानमयाचत ॥४२॥
आश्चर्यं वत्स शिरसा किं करोषि ममामुना ।
मांसास्थिकेशसङ्घातो हि क्वोपयुज्यत एष ते ॥४३॥
तथाप्यर्थस्तवानेन यदि च्छित्त्वा गृहाण तत् ।
इत्युक्त्वोपानयत्तस्मै स च मन्त्री शिराधराम् ॥४४॥
रसायनदृढायां च तस्यां प्रहरतश्चिरम् ।
राजसूनोर्ययुः खड्गा बहवस्तस्य खण्डशः ॥४५॥
यावद् बलबलैवायान्तं राजानं तं [चिरायुषम् ।
वारयन्तं शिरोदानात्सोऽथ नागार्जुनोऽब्रवीत् ॥४६॥