कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 177, कुल 1079 में से
संदर्भ में पढ़ें१५२ कथासरित्सागर
मर्त्या मरणधर्माणस्तन य किल निर्मिताः ।
साधयित्वामृतं यत्तानमरांकर्तुमिच्छसि ॥१७॥
एवं कृते विपर्ययो हि न स्याद् देवमनुष्ययोः ।
यष्टव्यायाजकाभावाद् भज्यते च जगत्स्थितिः ॥१८॥
तदस्मद्वचनादेतत्संहरामृतसाधनम् ।
अन्यथा कुपिता देवाः शापं दास्यन्ति ते ध्रुवम् ॥१९॥
यच्छोकादेष यत्नस्त स स्वर्गे त्वत्सुतः स्थितः ।
इति सन्दिश्य शक्रस्तौ प्रजिघायाश्विनावुभौ ॥२०॥
तौ चागत्य गृहीतार्थो तदागमनतोषिणम् ।
ऊचतुः शक्रसन्देशं तस्मै नागार्जुनाय तम् ॥२१॥
पुत्रं जगदतुश्चास्य दिवि देवैः समं स्थितम् ।
ततो नागार्जुनः सोऽत्र विषण्णः सन्नचिन्तयत् ॥२२॥
न करोमीन्द्रवाक्यं चेद्देवास्तत्तावदासताम् ।
इमावेव न किं शापमश्विनौ मे प्रयच्छतः ॥२३॥
तदेतदास्ताममृतं न सिद्धो मे मनोरथः ।
पुत्रश्च मे प्राक्सुकृतैरौर्ध्व्यां स गतो गतिम् ॥२४॥
इत्यालोच्याश्विनौ देवौ सोऽथ नागार्जुनोऽब्रवीत् ।
अनुष्ठिता मयेन्द्राज्ञा संहराम्यमृतक्रियाम् ॥२५॥
पञ्चाहेनामृते सिद्धे कृतैवैषाजरामरा ।
मयाऽभविष्यत्पृथिवी युवां चैत्रागमिष्यतम् ॥२६॥
इत्युक्त्वा तत्समक्षं तत्तद्द्रव्यान्निक्षखान सः ।
धरण्याममृतं सिद्धप्रायं नागार्जुनस्तदा ॥२७॥
ततोऽश्विनौ तमापृच्छय गत्वा शक्राय तद्दिवि ।
आचख्यतुः कृतं कार्यं ननन्दाथ च देवराट् ॥२८॥
तावच्चात्र चिरायुः स राजा नागार्जुनप्रभुः ।
पुत्रं जीवहरं नाम यौवराज्येऽभिषिक्तवान् ॥२९॥
अभिषिक्तं च तं माता प्रणामाथमुपागतम् ।
राज्ञी धनपरा नाम दृष्ट्वा दृष्ट्वावाब्रवीत्सुतम् ॥३०॥
यौवराज्यमिदं प्राप्य पुत्र हृष्यसि किं मुधा ।
राज्यप्राप्त्यै क्रमो ह्येष नृपसां च न विद्यते ॥३१॥