सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 117, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 117

९४ कथासरित्सागर
न यः निन्द्यश्च वन्द्यश्च स कामी यो जहाति ताम् ।
कान्तो येन बिना सा च तनुं त्यजति सुन्दरी ॥११७॥
तयात्र मह्यं नरवारः स्वर्णां पुरुषधाह्वयः ।
चतुर्वेदाय विधिवत् प्रदत्तो पदसंख्यया ॥११८॥
तत्सुसत्रगृहं कृत्वा स्वधर्ममिह सेवितुम् ।
इच्छाम तत्र भवता साहाय्यं मे विधीयताम् ॥११९॥
इति तस्य मुखाच्छ्रुत्वा प्रियावार्तां द्विजस्य सः ।
सद्योऽभूद्विक्रमादित्यस्तदाक्षिप्तमना नृपः ॥१२०॥
आदिश्य च प्रतीहारं द्विजस्यास्येष्टसिद्धये ।
विचिन्त्य दृढरागां च तां तृणीकृतजीविताम् ॥१२१॥
प्रतिज्ञासिद्धिसाहाय्ये सहसोत्कः स्वकामिनीम् ।
गणयित्वाल्पशेषं च तस्या देहक्षयावधिम् ॥१२२॥
सत्वरं मन्त्रिभिक्षिप्तराज्यो गत्वा विहायसा ।
प्रतिष्ठानं स नृपतिः प्रियावेश्म विवेश तत् ॥१२३॥
तत्र ज्योत्स्नाच्छवसनां विबुधापितवैभवाम् ।
कृशामपश्यत् कान्तां तां पर्वणीन्दुकलामिव ॥१२४॥
सापि नेत्रसुधासारमतर्कितमुपस्थितम् ।
दृष्ट्वा मदनमाला समुद्द्भ्रान्तेवाभवत् क्षणम् ॥१२५॥
आलिङ्गन्ती ततो भूयः पलायनभयादिव ।
कण्ठे भुजलतापाशमर्पयामास तस्य सा ॥१२६॥
किं मामनागसं त्यक्त्वा गतवानसि निष्कृप ।
इत्युवाच च तं बाष्पगद्गदाक्षरया गिरा ॥१२७॥
एहि वक्ष्यामि रहसीत्युक्त्वा साभ्यन्तरं रहः ।
तया सह ययौ राजा परिवाराभिनन्दितः ॥१२८॥
तत्रात्मानं प्रकाश्यास्यै स्ववृत्तान्तमवर्णयत् ।
नरसिंहनृपं युक्त्या जेतुमत्रागमद्यथा ॥१२९॥
यथा प्रपञ्चबुद्धिं च हत्वा खेचरतां ययौ ।
यथा नरं धनाध्यक्षात्प्राप्य सम्भज्यच ताम् ॥१३०॥
यथा च ब्राह्मणद्वारात् श्रुत्वा तत्रागतः पुनः ।
तत्सर्वमाप्रतिज्ञार्थानुक्त्वा भूयो जगाद ताम् ॥१३१॥