सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 113, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 113

प्रविष्टा तत्र नाद्राक्षीत्प्रियं तं नृपतिं क्वचित् ।
अद्राक्षीत्तु महोच्छायान् सौवर्णान्युच्च पूरुषान् ॥८८॥
सान्दृष्ट्वा तमनासाद्य दुःखिता सा व्यचिन्तयत् ।
नूनं विद्याधरः कोऽपि गन्धर्वो वा स मे प्रियः ॥८९॥
यः संविभज्य मामेभिः पूमिरुत्पत्य खं गतः ।
तदेतैरतुलैः किं तद्वियुक्ता करोम्यहम् ॥९०।
इति सञ्चिन्त्य पृच्छन्ती निजं परिजनं मुहुः ।
सत्तद्वृत्तिं विनिर्गत्य तत्र बभ्राम सर्वतः ॥९१॥
न च लेभे रतिं कापि हर्म्योद्यानगुहादिषु ।
विलपन्ती वियोगार्त्ता शरीरत्यागसम्मुखी ॥९२॥
मा विषादं कृथा देवि कोऽपि कामचरो हि सः ।
देवो यदृच्छया भूयो भव्यां त्वामभ्युपैष्यति ॥९३।
इत्याविधिं प्रवृत्तारुशैवचनैः परिजनेन सा।
आश्वासिता कथमपि प्रतिज्ञामकरोदिमाम् ॥९४॥
षण्मासमध्ये यदि मे न स दास्यति दर्शनम्।
दत्तसर्वस्वा वह्नौ प्रवेष्टव्यं ततो मया ॥९५॥
इति प्रतिज्ञयात्मानं संस्थाप्याभूततश्च सा ।
अन्वहं ददती दानं ध्यायन्ती तं स्ववल्लभम् ॥९६॥
एकदा स्वर्णपुंसां च तेषामेकस्य सा भुजौ ।
छेदयित्वा द्विजातिभ्यो ददौ दानैकतत्परा ॥९७॥
द्वितीयेऽह्नि च साद्राक्षीत्साबुधावेव तस्य तौ ।
[L22: रात्रिमध्ये समुत्पन्नौ भुजौ सञ्जातविस्मया ॥९८॥
ततः क्रमज सान्येषां भुजौ दानार्थमच्छिनत् ।
उत्पदिरे च सर्वेषां पुनस्तेषां तथैव ते ॥९९॥
अथ तानक्षयान् दृष्ट्वा विप्रेभ्यो वेदसत्कृया ।
अभ्येतुभ्यो ददौ छित्वा तद्‌भुजान् सा शुभान्वहम् ॥१०० ॥
दिनेष्वल्पेष्वेवं गता दिक्षु श्रुत्वा तां ख्यातिमाययौ।
तत्र संग्रामदत्ताख्या विप्रः पाटलिपुत्रकात् ॥१ १ १॥


१ प्रत्युक्तान् ।