सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 111, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 111

तद्बुद्धिवर गच्छ त्वं तावत्पाटलिपुत्रकम्।
वेषच्छन्नं समादाय राजपुत्रपरिच्छदम् ॥७४॥
अहं च कृत्वा प्रत्यक्षां प्रियायाः प्रत्युपक्रियाम्।
पुनरागमनायेह तत्रैवैष्यामि सम्प्रति ॥७५॥
एवमुक्त्वा स सचिवं विक्रमादित्यभूपतिः।
दिनकृत्यं स कृत्वा तं व्यसृजत्सपरिच्छदम् ॥७६॥
तथेति च गते तस्मिंस्तां निनाय निशां नृपः।
भाविविश्लेषसोत्कण्ठं समं मदनमालया ॥७७॥
सापि दूरीभवन्तं तं शंसतश्चान्तरात्मना।
आलिङ्गती मुहुः शोका नास्यां निद्रामगान्निशि ॥७८॥
ततः प्रातः स राजा तु विहितावश्यकक्रियः।
नित्यमेवार्चनागारं विवेशैको ऽपरोच्छलात् ॥७९॥
तत्र वैश्रवणं देवं संस्मृतोपस्थितं च सः।
वरं प्राक्प्रतिपन्नं तं प्रणम्यैनमयाचत ॥८०॥
प्रयच्छ देव तेनाद्य वरेणाङ्गीकृतेन मे।
सौवर्णान्पुरुषान् महतः पुरुषांस्तानीहाक्षयान् ॥८१॥
येषामिष्टोपभोगाय च्छिद्यमानान्यनारतम्।
तादृशान्येव जायन्ते तान्यङ्गानि पुनः पुनः ॥८२॥
एवं भवन्तु तद्रूपाः पुरुषास्ते यथेच्छसि।
इत्युक्त्वा स धनाध्यक्षो जगामादर्शनं क्षणात् ॥८३॥
राजापि तत्क्षणं सोऽत्र देवागारे ददर्श तान्।
स्थितानकस्मात्सौवर्णान्महतः पञ्च पूरुषान् ॥८४॥
ततः प्रविष्टो निरगात्स्वां प्रतिज्ञामविस्मरन्।
द्वामुत्पत्य ययौ तावत्पुरं पाटलिपुत्रकम् ॥८५॥
तत्राभिनन्दितोऽमात्यैः पौरैरन्तःपुरैश्च सः।
तस्थौ कार्याणि कुर्वाणः प्रतिष्ठानस्थया धिया ॥८६॥
तावच्चात्र प्रतिष्ठाने प्राविशत्तस्य सा प्रिया।
चिरप्रविष्टं तं कान्तं वीक्षितुं देवसद्म तत् ॥८७॥