सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 749, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 749

६९४ कथासरित्सागर

तेन स्वाकृतिना दैवात् सङ्गतिं वाञ्छति स्म सा।
स्वाभिप्रायं च सन्दिश्य तस्मै स्वां व्यसृजत्सखीम् ॥७४॥
सा गत्वा तत्सखी तस्य पुंसः साहसरङ्गिनः।
अनिच्छतोऽपि प्रार्थ्यैव यत्नात् सङ्केतकं व्यधात् ॥७५॥
एतद्देवगृहं भद्र विविक्तं पश्यसीह यत्।
अत्र रात्रौ प्रतीक्षेथा राजपुत्र्यास्तवागमम् ॥७६॥
इत्युक्त्वा सा तमामन्त्र्य गत्वा तस्मै तदभ्यधात्।
तेजस्वत्यै ततः सापि तस्थौ सूर्यावलोकिनी ॥७७॥
पुमांश्च सोऽनुमान्यापि भयाद्यत्नात्पलाय्येतः ययौ।
न भेकः पद्मिनीकिञ्जल्कास्वादकोविदः ॥७८॥
अत्रान्तरे च कोऽप्यात्र राजपुत्रः कुलोद्गतः।
मृते पितरि तन्मित्रं राजानं द्रष्टुमाययौ ॥७९॥
स चात्र सायं सम्प्राप्तः सोमदत्ताभिधो युवा।
दायादहृतराज्यादिरेकाकी कान्तदर्शनः ॥८०॥
विवेश दैवात्तमेव नेतुं देवकुले निशाम्।
राजपुत्र्याः सखी यत्र पुंसः सङ्केतमादिशत् ॥८१॥
तं तत्र स्थितमभ्येत्य राजपुत्र्यविभाव्य सा।
निशायामनुरागाच्च स्वयंवरपतिं व्यधात् ॥८२॥
सोऽप्यभ्यनन्दत् तूष्णीं तां प्राप्तो विधिसमर्पिताम्।
संसूचयन्तीं भाविन्या राजलक्ष्म्याः समागमम् ॥८३॥
ततः क्षणाद्राजसुता सा विलोक्यैवमेव तम्।
कमनीयतमं मेने धातारमानुकूल्यितम् ॥८४॥
अनन्तरं कथां कृत्वा यथास्वं संविदा तयोः।
एषा स्वमन्दिरमगादन्यस्तत्रानयन्निशाम् ॥८५॥
प्रातर्गत्वा प्रतीहारमुखेनावेद्य नाम च।
राजपुत्रः परिज्ञातो राज्ञः प्राविशदन्तिकम् ॥८६॥
तत्रोत्सराज्याहारादिदुर्गतस्य स कुलाङ्कुरः।
अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्दने ॥८७॥
मतिं चक्रे च तां तस्मै दातुं प्राणशिरोमणिं सुताम्।
मन्त्रिभ्यश्च तज्ज्ञेभ्योऽभिप्रायं शशंस सः ॥८८॥
अथैतन्मै च राज्ञे तं सुतावृत्तान्तमभ्यधात्।
दत्ता स्वाद्यापिता पूर्वं सर्वैराजसमीयुषा ॥८९॥