सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 711, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 711

६५६ कथासरित्सागर
इत्यादि राजतनया हृदि चिन्तयन्ती
तां यामिनीमनयद्यत्र कलिङ्गसेना ।
सोमप्रभा च निजवेश्मनि भूय एव
तद्दर्शनोत्सुकमना रजनीं निनाय ॥१९३॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे ।
मदनमञ्चुकालम्बके द्वितीयस्तरङ्गः ।
तृतीयस्तरङ्गः
कलिङ्गसेनायाः कथा (पूर्वतोऽनुवृत्ता)
ततः सोमप्रभा प्रातस्तद्विनोदोपपादिनीम् ।
न्यस्तदारुमयानेकमायायन्त्रपुत्रिकाम् ॥१॥
करण्डिकां समादाय सा नभस्तलचारिणी ।
सख्याः कलिङ्गसेनाया निकटं पुनराययौ ॥२॥
कलिङ्गसेनाप्यालोक्य तांमानन्दाश्रुनिर्भरा ।
उत्थाय कण्ठे जग्राह पार्श्वसीनामुवाच च ॥३॥
त्वदीयमुखपूर्णेन्दुदर्शनेन विना सखि !
तमोमयी त्रियामाद्य शतयामेव मे गता ॥४॥
सज्जन्मान्तरसम्बन्धः कीदृशः स्यात्सख्या मम ।
यस्यायं परिणामोऽद्य त्वं देवि ! वेत्सि चेद् वद ॥५॥
तच्छ्रुत्वा राजपुत्रीं तामेवं सोमप्रमाब्रवीत् ।
ईदृशं मे नास्ति विज्ञानं नहि जातिं स्मराम्यहम् ॥६॥
न चात्र मनसोऽभिज्ञा बोधितं यदि जानते ।
तौ कृतं तादृशं पूर्वे परतस्त्वविदश्च त ॥७॥
एवमुक्तवतीं भूयः प्रेमचिह्नम्प्रणश्यलम् ।
कलिङ्गसेना पप्रच्छ विह्वले तां सुरारिपुम् ॥८॥
ब्रूहि मे सखि कस्येह देवजातेः पितुस्त्वया ।
जन्मनाऽलङ्कृतो वंशो मुक्तयेव सुवृत्तया ॥९॥
जगत्कर्णामृतं किं च तव नाम ससद्गुणे ।
करण्डिका किमर्थेयमस्यामस्ति च वस्तु किम् ॥११॥