कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 703, कुल 876 में से
संदर्भ में पढ़ें१४८ कथासरित्सागर
तच्छ्रुत्वा तं परित्यज्य गच्छन्नग्रे ददर्श सः ।
आम्रवृक्षं फलायस्य भोक्तुं चैच्छन्नृपात्मजः ॥१३८॥
वणिक्पुत्रेण च प्राप्तस्ततोऽपि स निवारितः ।
सान्तःस्वेदं शनैर्गच्छन्नाप श्वशुरवेश्म तत् ॥१३९॥
तत्रोद्वाहकृते वेश्म विशन्द्धाराधिवर्त्तितः ।
तैनेव सख्या यावच्च तावत्पतितं गृहम् ॥१४०॥
ततः कथञ्चिदुत्तीर्णः किञ्चित्सम्प्रत्ययो निधिः ।
निवासके विवेशान्ये राजपुत्रो वधूसखः ॥१४१॥
तत्र तस्मिन्वणिक्पुत्रे प्रविश्यारक्षितस्थिते ।
ससङ्करवं क्षुतं चक्रे शयनीयाश्रितोऽप्यसौ ॥१४२॥
शतकृत्वोऽपि तस्मान्न नीचैर्जीवेत्युदीर्य सः ।
कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं वहिर्ययौ ॥१४३॥
निर्यान्तं तमपश्यच्च राजपुत्रो वधूसखः ।
ईर्ष्याविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थानुवाच च ॥१४४॥
पापात्मायं रहस्यस्य प्रविष्टोऽन्तःपुरं मम ।
तद्बद्ध्वा स्थाप्यतां यावत्प्रभातेऽसौ निगृह्यते ॥१४५॥
तदुक्त्वा रक्षिभिर्बद्धो निशां निन्ये वणिक्सुतः ।
प्रातर्वध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ॥१४६॥
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः ।
वक्ष्यामि कारणं किञ्चित्ततः कुरुत मे वधम् ॥१४७॥
इत्युक्तैस्तेन तैर्गत्वा विज्ञप्तः स नृपात्मजः ।
सचिवैर्योषितश्चान्यैस्तस्यानयनमाविशत् ॥१४८॥
आनीतः सोऽब्रवीत्तस्मै वृत्तान्तं राजसूनवे ।
प्रत्ययाद्गृहपालोत्थाम्मेमे सत्यं च सोऽपि तत् ॥१४९॥
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः ।
आययौ राजतनयः कृतदारो निजां पुरीम् ॥१५०॥
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः ।
स्तूयमानगुणः सर्वजनैरासीद्यथामुदम् ॥१५१॥
एवमप्यदृढदृशा मूर्खाः स्वमिमन्तप्रमाथिनः ।
राजपुत्रा न मन्यन्ते हितं भर्ता गजा इव ॥१५२॥