सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 687, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 687

६३२ कथासरित्सागर
अनेन च हस्ते कृत्वा तन्मातः पश्येदमीदृशम् ।
जुगुप्सितमसृङ्मांसं गृह्यतां यदि रोचते ॥२२॥
ईदृगेव द्वितीयं च वद रम्यं किमेतयोः ।
इत्युक्ता तेन तद्दृष्ट्वा व्यषीदत्सा वणिग्वधूः ॥२३॥
उवाच च हहा ! पापं मया कृतमभव्यया ।
यदहं हेतुतां प्राप्ता लोचनोत्पाटने तव ॥२४॥
तच्छ्रुत्वा भिक्षुरवदन्माभूद्व्यथा तव भव्या ।
मम त्वया ह्युपकृतं यत् शृणु निदर्शनम् ॥२५॥

एकस्य तपस्विनः राज्ञश्च कथा

आसीत्कोऽपि पुरा कान्ते कुत्राप्युपवने यतिः ।
मनुजाङ्गत्वपि वैराग्यनिश्चयेनिकयेच्छया ॥२६॥
तपस्यतश्च कोऽप्यस्य राजा तत्रैव दैवतः ।
विहर्तुमागतः साकमवरोधवधूजनैः ॥२७॥
विहृत्य पानसुप्तस्य पार्श्वादुत्थाय तस्य च ।
नृपस्य चापलाद्राज्ञीसमस्तदुद्याने किलाभ्रमन् ॥२८॥
दृष्ट्वा तत्रैकदेशे च तं समाधिस्थितं मुनिम् ॥
अतिष्ठन्परिवार्यैनं किमेतदिति कौतुकात् ॥२९॥
चिरस्थितासु तास्वत्र प्रबुद्धः सोऽथ भूपतिः ।
अपश्यन् दयिताः पार्श्वे तत्र बभ्राम सर्वतः ॥३०॥
ददर्श चात्र राज्ञीस्ताः परिवार्य मुनिं स्थिताः ।
कुपितश्चेर्ष्यया तस्मिन्खड्गेन प्राहरन्मुनौ ॥३१॥
ऐश्वर्यमीर्ष्यानिर्बुद्ध्यं क्षीबस्य निर्विवेकिता ।
एकैकं किं न यत्कुर्यात् पञ्चाङ्गिरवे तु का कथा ॥३२॥
ततो गते नृपे तस्मिंस्तादृशमपि तं मुनिम् ।
अमूर्तं प्रकटीभूय काप्युवाचात्र देवता ॥३३॥
महात्मन्येन पापेन क्रोधेनैतत्कृतं त्वयि ।
स्वशक्त्या तमहं हन्मि मन्यते यदि तद्भवान् ॥३४॥