सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 661, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 661

६८ कथासरित्सागर
कान्तयान्तं किलापूर्णतुङ्गस्तनतटान्तया ।
लावण्याम्बुतरङ्गिण्या हृत स्यादालमनः प्रभुः ॥६५॥
शुश्रुमे किं न शर्वोऽपि पुरा दृष्ट्वा तिलोत्तमाम् ।
भ्रात्रा गृहीत्वा रक्षितामृतमेभ्यनिल तिलम् ॥६६॥
तपश्च मेनकां दृष्ट्वा विश्वामित्रो न किं जहौ ।
शर्मिष्ठा रूपशोभाञ्च ययातिर्नाप्तिवान् जराम् ॥६७॥
अतो विद्याधरयुवा नैवायमपराध्यति ।
त्रिजगत्क्षोभशक्तेन रूपेणाप्सरसा हृतः ॥६८॥
इयं तु स्वर्षेषु पापा हीनासक्तापराधिनो ।
प्रवेषित सुरान् हित्वा मयायमिय नन्दने ॥६९॥
इत्यालोच्य विमुञ्चैन विद्याधरकुमारकम् ।
अहल्याकामुक¹ सोऽस्यै शापमप्सरसे ददौ ॥७०॥
पापे प्रयाहि मानुष्य प्राप्य चायोनिजां सुताम् ।
दिव्यं कृत्वा च कर्तव्यमेष्यसि द्यामियामिति ॥७१॥
अत्रान्तरे च सा तस्य राज्ञस्तक्षशिलापुरि ।
राज्ञी कलिङ्गदत्तस्य तारावत्या ययावृतुम् ॥७२॥
तस्या सुरभिदत्ता सा शक्रशापच्युताप्सराः ।
सम्बभूवोदरे देव्या देहसौन्दर्यदायिनी ॥७३॥
तया च नभसो भ्रष्टां ज्वालां वेदीं ददर्श सा ।
तारावत्ता किल स्वप्ने प्रविशन्तीं निजोदरे ॥७४॥
प्रातश्चावर्णयत्स्वप्नं भर्त्रे तं सा सविस्मया ।
राजे कलिङ्गदत्ताय सोऽपि प्रीतो जगाद ताम् ॥७५॥
देवि ! दिव्या पतन्त्येव शापान्मानुष्ययोनिषु ।
तन्नानेव विजातीयः कोऽपि गर्भं तवार्पितः ॥७६॥
विचित्रसदसत्कर्मनिबद्धाः सञ्चरन्ति हि।
जगत्त्रयस्त्रिजगत्यस्मिन् शुभाशुभफलाप्तये ॥७७॥
――――
१ स्वयमहुल्या कामुकोऽपि सुरभिदत्तां शशापेति व्यङ्ग्यमिदं विशेषनम् ।