कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 621, कुल 876 में से
संदर्भ में पढ़ें५७ कथासरित्सागर
सा दृष्टा दृष्टपूर्वं तं विप्रं राजानमभ्यधात् ।
तात मिथ्यैव भूयोऽपि किञ्चिद् वक्ष्यत्यसाविति ॥९९॥
शक्तिदेवस्ततोऽवादीदहं सत्यं नृपाय वा ।
वच्मि राजसुते त्वं तु वदैव मम कौतुकम् ॥१००॥
मया कनकपुर्यां त्वं पर्यङ्के गतजीविता ।
दृष्टा ऽहह न पश्यामि जीवन्तीं भवतीं कथम् ॥१०१॥
इत्युक्ता शक्तिदेवेन साभिज्ञानं नृपात्मजा ।
सद्यः कनकरेखा सा जगादैव पितुः पुरः ॥१०२॥
तात दृष्टामुना सत्यं नगरी सा महात्मना ।
अचिराच्चैष भर्ता मे तत्रस्थाया भविष्यति ॥१०३॥
तत्र मद्भगिनीश्चान्यास्तिस्रोऽप्य परिनेष्यति ।
विद्याधराधिराज्यं च तस्यां पुरि करिष्यति ॥१०४॥
मया त्वद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा ।
मुनेः शापादहं ह्यत्र जाताऽभूवं भवद्गृहे ॥१०५॥
यदा कनकपुर्यां ते गेहमालोक्य मानुषः ।
मर्त्यभावभृतस्तत्स्वप्रतिभवं करिष्यति ॥१०६॥
तदा ते शापमुक्तिश्च स च स्यान्मानुषः पतिः ।
इति मे च स शापान्तं पुनरेवाऽदिशन्मुनिः ॥१०७॥
जातिस्मरा च मानुष्येऽप्यहं ज्ञानवती तथा ।
तद्ब्रजाम्यधुना सिद्धये निजं वैद्याधरं पदम् ॥१०८॥
इत्युक्त्वा राजपुत्री सा तनुं त्यक्त्वा तिरोदधे ।
तुमुलश्चोदभूत्तस्मिन्नाक्रन्दो राजमन्दिरे ॥१०९॥
शक्तिदेवोऽप्युभयतो भ्रष्टस्तत्रैवुदत्तरे ।
श्लेशे प्राप्यापि न प्राप्ते ध्यायस्ते द्वे अपि प्रिये ॥११०॥
निन्दन्खिन्नोऽपि चात्मानमसम्पून्नमनोरथः ।
निर्गत्य राजभवनात् क्षणादेवमचिन्तयत् ॥१११॥
अभीष्टं भावि मे तावदुक्तं कनकरेखया ।
तत्किमर्थं विषादामि सत्त्वाधीना हि सिद्धयः ॥११२॥
पथा तेनैव कनकपुरीं गच्छामि तां पुनः ।
भूयोऽप्यवश्यं दैव मे तत्रोपायं करिष्यति ॥११३॥
इत्यालोच्यैव स प्रायाच्छक्तिदेवो पुरस्ततः ।
असिद्धार्था निवर्तन्ते नहि धीराः कृतोद्यमाः ॥११४॥