कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 613, कुल 876 में से
संदर्भ में पढ़ें५६२ कथासरित्सागर
इयं कनकपुर्याख्या पुरी विद्याधरास्पदम्।
चन्द्रप्रभेति चैतस्यामास्ते विद्याधरी सती ॥४०॥
तस्याश्चावामिहोद्याने जानीह्युद्यानपालिके।
पुष्पोच्चयस्तदर्थोऽयमिति ते च तमूचतुः ॥४१॥
ततः सोऽप्यवदद् विप्रो युवां म कुरुतं तथा।
यथाहमपि पश्यामि तां युष्मत्स्वामिनीमिह ॥४२॥
एतच्छ्रुत्वा तथेत्युक्त्वा नीतवत्यावुभे च ते।
स्त्रियावन्तर्नगर्भास्तं युवानं राजमन्दिरम् ॥४३॥
सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम्।
सौधमभ्रंलिहस्फोतकेतनं सम्पद्दामिव ॥४४॥
तत्रागतं च दृष्ट्वा तं सर्वः परिजनोऽब्रवीत्।
गत्वा चन्द्रप्रभायास्तं मानुषागममद्भुतम् ॥४५॥
साप्यादिश्य प्रतीहारमभिसञ्चितमेव तम्।
अभ्यन्तरं स्वमीकेतं विप्रं प्रावेशयत्ततः ॥४६॥
प्रविष्टः सोऽप्यपश्यत्तां तत्र नेत्रोत्सवप्रदाम्।
धातुर्युवतिनिर्माणपर्याप्तिमिव रूपिणीम् ॥४७॥
सा च सद्रत्नपर्यङ्काद्दूरादुत्थाय तं स्वयम्।
स्वागतेनाद्रुतवती तद्दर्शनवशीकृता ॥४८॥
उपविष्टमपृच्छाञ्च कल्याणिन् कस्त्वमीदृशः।
कथं च मानुषागम्यामिमां प्राप्तो भवान्भुवम् ॥४९॥
इत्युक्तः स तया चन्द्रप्रभया सकुतूहलम्।
शशंसिदेवो निजं देशं जातिं चाथ नाम च ॥५०॥
मत्पुरीङ्गनपगात्राञ्जु तां राजकन्यकाम्।
यथा कनकनरेणाप्राप्तागतस्तदवदत्तत् । ५१ ॥
तद्बुद्ध्वा किमपि ध्यात्वा दीर्घं निःश्वस्य सा ततः ।
चन्द्रप्रभा च विजनं शशिशेखरमभाषत ॥५२॥
नूनं त्वां दर्शिनं तद्धितैषिणा सुभग! गच्छति।
: अगस्त्यो गतिगन्धाढ्यो विद्याधरपतिर्भुवि ॥५३॥
: यष तस्य कनकप्रभः जाता दुहितरः प्रमात् ।
: उत्पन्ना चन्द्रप्रभाप्यस्मि चन्द्रगति चारु ॥५४॥