कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 569, कुल 876 में से
संदर्भ में पढ़ें५२२ कथासरित्सागर
निर्याति च कृतस्वस्तिकार तं च सविस्मयम् ।
युवानं वीक्ष्य पप्रच्छ दाशः सत्यव्रतस्ततः ॥५३॥
कस्त्वं कथं कुतश्चैषा शफरोदरशामिता ।
वृथास्त्वयाप्ता कोऽयं ते वृत्तान्तोऽप्यन्तमद्भुतः ॥५४॥
तच्छ्रुत्वा शक्तिदेवस्तं दाशेन्द्रं प्रत्यभाषत ।
ब्राह्मणः शक्तिदेवाख्यो वर्धमानपुरावहम् ॥५५॥
अवश्यगम्या कनकपुरी च नगरी मया ।
अजानानश्च तां दूराद् भ्रान्तोऽस्मि सुचिरं भुवम् ॥५६॥
ततो दीर्घतपोवाक्यात्सम्भाव्य द्वीपगां च ताम् ।
तज्जन्मज दाशपतेरस्यैतद्द्दीपवासिनः ॥५७॥
पार्श्वं सत्यव्रतस्याहं गच्छन्वहनभङ्गतः ।
मग्नोऽम्बुधौ निगीर्णोऽस्मि मत्स्येन प्रापितोऽधुना ॥५८॥
इत्युक्तवन्तं च शक्तिदेवं सत्यव्रतोऽब्रवीत् ।
सत्यव्रतोऽहमेवेन्द्रद्वीपे सम्मदमव ते ॥५९॥
किन्तु दृष्टा बहुद्वीपद्रुत्वेनापि१ न सा मया ।
नगरी त्वदभिप्रेता द्वीपान्तपु श्रुता पुन ॥६०॥
इत्युक्त्वा शक्तिदेवं च विषण्णं वीक्ष्य तत्क्षणम् ।
पुनरभ्यागतप्रीत्या तं स सत्यव्रतोऽभ्यधात् ॥६१॥
ब्रह्मन् ! मा गा विषादं त्वमिहैवाद्य निशां वस ।
प्रातः कश्चिन्दुपायं तं विधास्यामीप्सितद्धये ॥६२॥
इत्याश्वास्य स तेनैव दाशेन प्रहितोऽथ ।
मुख्यमातिथ्यसत्कारं द्विजो विप्रमठं ययौ ॥६३॥
तत्र मठासिनस्तेन कृताहारो द्विजन्मना ।
विष्णुदत्ताभिधानेन सह चक्रे कथाक्रमम् ॥६४॥
तत्प्रसङ्गाच्च तेनैव पृष्टस्तस्मै शशंस तत् ।
निजं दशं कृतं कृत्स्नं वृत्तान्तं च शनैः सः ॥६५॥
तद्बद्धया परिरभ्यमं विष्णुदत्तः स तत्क्षणम् ।
बभाषे हर्षवाष्पाम्बुधर्मराजशरर्जरम् ॥६६॥
शिष्या मातृष्वसुपुत्रस्त्वंमवत्त्वद्गमञ्च मे।
१ दृष्टवत्तेत्यर्थः ।