सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 511, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 511

४१८ कथासरित्सागर
इत्युक्तवत्यां तस्यां च स तद्भर्त्ता व्यजिज्ञपत्।
देव ! मिथ्या वदत्येषा सवन्न्मूर्खद्वेषिणी ॥१९॥
आ वत्सरान्तं सर्वं हि दत्तमस्या मयाग्रतः।
एतद्वेश्मभव एवाये तटस्था मेऽत्र साक्षिणः ॥२०॥
एव विज्ञापितस्तेन राजा स्वयमभाषत।
देवीस्वप्ने कृतं साक्ष्य देवेनैवात्र शूलिना ॥२१॥
तत्किं साक्षिभिरेषैव निग्राह्या स्त्री सबान्धवा।
इति राज्ञोदितेऽवादीद्धीमान् यौगन्धरायणः ॥२२॥
तथापि साक्षिबचनात्कार्यं देव यथोचितम्।
लोको ह्यतदजानानो न प्रतीयात् कथञ्चन ॥२३॥
तच्छ्रुत्वा साक्षिणो राजा तद्वत्यानाय्य तत्क्षणम्।
पृष्टाः शशंसुस्ते धाम तां मिथ्यावादिनीं स्त्रियम् ॥२४॥
तत प्रख्याप्यसधर्मद्रोहामतां सबान्धवाम्।
सपुत्रां च स वत्सेशः स्वदेशान्नरवासयत् ॥२५॥
विससर्ज च तं साधु तद्भर्त्तारं दयार्द्रधीः।
विवाहान्तरपर्याप्तं द्वितीयं विपुलं वसु ॥२६॥
पुमांसमाकुलं क्रूरा पतितं दुर्व्यधावटे।
जीवन्तमेव कृच्छ्राति शकीव कुकुटुम्बिनी ॥२७॥
स्निग्धा कुलीना महती गृहिणी तापहारिणी।
तरुच्छायेव मार्गस्था पुण्यैः कस्यापि जायते ॥२८॥
इति धवलमङ्गेन वदन्तं स महीपतिम्।
वसन्तकः स्थितः पार्श्वे कथापटुरबोचत ॥२९॥
किं च देव विरोधो वा स्नेहो वापीह देहिनाम्।
प्राग्जन्मवासनाभ्याससञ्चारप्रायेण जायते ॥३०॥
तथा च श्रूयतामत्र कथैषा वर्ण्यते मया।
सिंहविक्रमस्य कलहकारिण्यास्तद्भार्यायाश्च कथा
आसीद् विक्रमचण्डाख्यो वाराणस्यां महीपतिः ॥३१॥
तस्याभूद् वल्लभो भृत्यो नाम्ना सिंहपराक्रमः।
यो रणेष्विव सर्वेषु धूतेष्वप्यसमो जयी ॥३२॥