सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 49, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 49

तद् ब्रूहि निजवृत्तान्तं जन्मनः प्रभृति प्रभो।
मां पवित्रय भूयोऽपि न गोप्यं यदि मादृशे ॥२८॥
ततो वररुचिस्तस्य प्रशस्तस्यानुरोधतः।
सर्वमाजन्मवृत्तान्तं विस्तरादिदमब्रवीत् ॥२९॥
कौशाम्ब्यां सोमदत्ताख्यो नाम्नाग्निशिख इत्यपि।
द्विजोऽभूत्तस्य भार्या च यज्ञादत्ताभिधामवत् ॥३०॥
मुनिकन्या च सा शापात्तस्यां जाताभवत्त्वहम्।
तस्यां तस्माद् द्विजवराद्येष जातोऽस्मि साम्प्रतं ॥३१॥
ततो ममातिबालस्य पिता पञ्चत्वमागतः।
अतिष्ठद् वर्द्धयन्ती तु माता मां कृच्छ्रकर्मभिः ॥३२॥
अथाभ्यगच्छतां विप्रौ द्वावस्मद्गृहमेकदा।
एकरात्रिनिवासात्थं दूराध्वपरिधूसरौ ॥३३॥
तिष्ठतांस्तत्र च तयोरभून्मुरजध्वनिः।
तंन मामब्रवीन्माता भर्तुः स्मृत्वा सगद्गदम् ॥३४॥
नृत्यत्येष पितुर्मित्रं तव नन्दो नटः सुतः।
अहमप्यवदं मातर्दृष्ट्वामद्व्रजाम्यहम् ॥३५॥
तवापि दर्शयिष्यामि सपाठं सर्वमेव तत्।
एतन्मद्वचनं श्रुत्वा विप्रौ तौ विस्मयं गतौ ॥३६॥
अवोचतां च मन्मातां हा पुत्रौ! नात्र संशयः।
सकृच्छ्रुतधरो बालः सर्वं च धारयेद्यदि ॥३७॥
जिज्ञासाधर्मयाभ्यां मे प्रातिशाख्य१मपाठ्यत।
तथैव तन्मया सर्वं पठितं पश्यतोस्तयोः ॥३८॥
ततस्ताभ्यां समं गत्वा दृष्ट्वा नाट्यं तथैव तत्।
गृहमत्याग्रतो मातुः समग्रं दर्शितं मया ॥३९॥
एवन्ध्रुतधरत्वेन मां निश्चित्य कथामिमाम्।
व्याडिनामा तयोरेको मन्मातुः प्रजतोऽब्रवीत् ॥४०॥

१ वैदिकं व्याकरणम्। २ व्याडि२यं संग्रहह्वयस्य ग्रन्थस्य प्रणेता एतद् वि
परिशिष्टे द्रष्टव्यम्।