सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 483, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 483

प्राणदानोपकारस्य कुर्व्वन् प्रत्युपक्रियाम्।
आनीय च गृहं प्रीत्या पूर्णं सम्भावितद्विजम्॥७३॥
सत्कृत्य प्रपितक्षाध हृदयं प्रमपेक्षरम्।
निधाय मयि पत्नीं स्वां प्रायात्स शबराधिप ॥७४॥
तत्र प्रत्युपकारार्थं चिन्तयन्प्राभृतं मम।
स्वल्पं स मेने स्वाधीन मुक्ताकस्तूरिकाद्यपि॥७५॥
तत सातिशय प्राप्तं मुक्तासारं स मत्कृते।
धनुद्वितीयः प्रययौ गजान् हन्तु हिमाचलम्॥७६॥
भ्रमश्च तत्र तीरन्यद्ववागार महत्तर ।
प्राप तुल्य कृतप्रीतिस्तदम्भोजिन्नरागिभिः॥७७॥
तत्राणक्ष्यम्बुपानायैमागम वन्यहस्तिनाम्।
छन्नः स तस्थावेकान्ते समापस्सज्जिघांसया॥७८॥
तावत्तत्र सरस्तीरगतं पूजयितु हरम्।
आगतामद्भुताकारां कुमारीं सिंहवाहनाम्॥७९॥
स ददर्श तुषाराद्रिराजपुत्रीमिवापराम्।
परिचर्यापरां शम्भोः कन्यकामाववर्तिनीम्॥८०॥
दृष्ट्वा च विस्मयाक्रान्तः शबरः स व्यचिन्तयत्।
केयं स्याद्यदि मर्त्यस्त्री तत्कथं सिंहवाहना॥८१॥
अथ दिव्या कथं दृश्या मादृशस्त्विय ध्रुवम्।
चक्षुषो पूर्वपुण्यानां मूर्त्ता परिणतिर्मम॥८२॥
अन्यथा यदि मित्रं त योजयेयमहं शत ।
वाप्यन्यत्र मया तस्य कृता स्यात्प्रत्युपक्रिया॥८३॥
तदेतामुपसर्पामि तावज्जिज्ञासितुं वरम्।
इत्यालोच्य स मित्रं मे शवरस्तामुपाययौ॥८४॥
तावच्च सावतीयैव निष्ठाच्छायानिवारिम ।
कन्यागस्य सरः पद्मान्यवचतु प्रचक्रमे॥८५॥
तं च दृष्ट्वान्तिकप्राप्तं शबरं सा कृतानतिम्।
अपूर्वमतिथिप्रीतया स्वागते मान्वरञ्जयत्॥८६॥
कस्त्वं किं चागतोऽस्येतां भूमिमत्यन्तदुर्गमाम्।
इति पृष्टवतीं तां च शवरः प्रत्युवाच सः॥८७॥