सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 455, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 455

४१४ कथासरित्सागर

पिङ्गलिकाब्राह्मणीकथा

अथैकद्युस्तं स वत्सपामुपेत्यास्थानवर्त्तिनम् ।
नित्योत्क्षिप्तस्य प्रवरः प्रतीहारो व्यजिज्ञपत् ॥३८॥
शिशुद्वयसमुद्भूता ब्राह्मणी कापि दुर्गता ।
द्वारि स्थिता महाराज देवदर्शनकांक्षिणी ॥३९॥
तच्छ्रुत्वाभ्यनुज्ञाते तत्क्षणं महीभृता ।
ब्राह्मणी सा विवेशात्र कृशपाण्डुरधूसरा ॥४०॥
माननव विशीर्णेन वाससा विधुरीकृता ।
दुर्दैव्यनिभावङ्के बिभ्रती बालकावुभौ ॥४१॥
कृतोचितप्रणामा च सा राजानं व्यजिज्ञपत् ।
ब्राह्मणी कुलजा चाहमीदृशीं दुर्गतिं गता ॥४२॥
दैवायुगपदेतौ च जातौ द्वौ तनयौ मम ।
तच्च नास्ति मे स्तन्यमतयोर्भोजनं बिना ॥४३॥
तनेह कृपणा माद्य शरणागतवत्सलम् ।
प्राप्तास्मि देवं शरणं प्रमाणमधुना प्रभुः ॥४४॥
तच्छ्रुत्वा सद्यो राजा स प्रतीहारमादिक्षत् ।
इयं वासवदत्तायै देव्यै नीत्वाप्यतामिति ॥४५॥
सतद्द कर्मणा स्वेन शुभेनेवाग्रयायिना ।
नीताऽभून्निकटं देव्याः प्रतीहारेण तेन सा ॥४६॥
राज्ञा विसृष्टां दृष्ट्वा तां प्रतीहारानुपागताम् ।
देवी वासवदत्ता सा ब्राह्मणीं श्लघ्नतराम् ॥४७॥
युग्मापत्यां च पश्यन्ती दीनामतां व्यचिन्तयत् ।
अहो वामकबुद्धित्वं किमप्येतत्प्रजापतेः ॥४८॥
अहो ! वस्तुनि मारम्यमहो भक्तिरवस्तुनि ।
नाद्याप्येकोऽपि मे जाता जातौ त्वस्या यमाविमौ ॥४९॥
एवं सचिन्तयन्ती च सा देवी स्नानकांक्षिणी ।
ब्राह्मण्याश्चेटिकास्तस्याः स्नपनादौ समादिशत् ॥५०॥
स्नपिता दत्तवस्त्रा च ताभिः स्वादु च भोजिता ।
ब्राह्मणी गाम्बुसिक्तेव तप्ता भूः समुदश्वसत् ॥५१॥