कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 415, कुल 876 में से
संदर्भ में पढ़ें१७४ कथासरित्सागर
ततो मगधभूभृता सनगरण वनाचितः
समग्रजनमानसैनुगतोऽनुरागागतः ।
निगीर्णवसुधातलो बलबरेण सावाणक
जगाम विषयं निजं स किल वत्सराजो जयी ॥११८॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे
लावाणकलम्बके पञ्चमस्तरङ्गः ।
षष्ठस्तरङ्गः
वत्सराजकथा (पूर्वानुवृत्ता)
ततः स सेनाविश्रान्त्यै तत्र लावाणके स्थितः ।
रहस्युवाच वत्सदो राजा यौगन्धरायणम् ॥१॥
त्वद्बुद्ध्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया ।
उपायस्वीकृतास्ते च नैव व्यभिचरन्ति मे ॥२॥
वाराणसीपतिस्तेषां ब्रह्मदत्तो दुराशयः ।
जाने व्यभिचरत्येको विश्वासः कुटिलद्रुपु कः ॥३॥
इति वत्सेश्वरेणोक्त आह यौगन्धरायणः ।
न राजन् ब्रह्मदत्तस्ते भूयो व्यभिचरिष्यति ॥४॥
आश्वस्तोपनतस्तेषां भृशं सम्मानितस्त्वया ।
शुभाचारस्य कः कुर्यादशुभं हि सचतनः ॥५॥
कुर्वीत वा यस्तस्यैव तदात्मन्यशुभं भवेत् ।
तथा च श्रूयतामत्र कथां ते वर्णयाम्यहम् ॥६॥
फलबूतोः कथा
बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः ।
ख्यातिमानग्निदत्ताख्यो भूभृत्साप्रहार भुक् ॥७॥
तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायानजायत ।
द्वितीयश्चाभवद् वडवानरदत्ताख्यया सुतः ॥८॥
१ राजभिः ब्राह्मणेभ्यो महाविद्वत्ताद्ध्ययसविधे दलक्त्वेन प्रदत्ता हप्त्टिमूविराहार
इत्युच्यते । दक्षिणदेशेऽग्रहाराणां प्राचुर्यं वर्तते ।