सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 349, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 349

५८ कथासरित्सागर
मन्त्रिणोऽप्युत्सवं चक्रुर्जयं निर्दिश्य भूपतेः।
आमुखापातिकल्याणं कार्यसिद्धिं हि शंसति॥४९॥
यतश्च पताकाविशुद्धैभिराकीर्णे गगनान्तरे।
ववर्षे राजजलदः कनकं सोऽनुजीविषु॥५०॥
उत्सवेन च नीतेऽस्मिन्दिने यौगन्धरायणः।
चित्तं जिज्ञासुरन्येद्युर्वत्सेश्वरमभाषत॥५१॥
एतत्कुलक्रमायातं महासिंहासनं रवम्।
यत्प्राप्तं तत्समारुह्य देवामङ्क्रियतामिति॥५२॥
विजित्य पृथ्वीमास्ना यत्र मे प्रपितामहाः।
सत्राभित्वा दिशः सर्वाः का समारोहतः प्रथा॥५३॥
वत्सराजस्य दिग्विजयः
[L13: जित्वैवेमां समुद्रान्तां पृथ्वीं पृथुविभूषणाम्।
अलङ्करोमि : पूर्वतो रत्नसिंहासनं महत्॥५४॥
इत्यूचिवाश्नरपतिर्नारुरोह स सम्प्रति।
सम्भवत्यभिजातानामभिमानो ह्यकृत्रिमः॥५५॥
ततः प्रीतस्तमाह स्म नृपं यौगन्धरायणः।
साधु देव! कुरु प्राच्यां तर्हि पूर्वं जयोद्यमम्॥५६॥
तच्छ्रुत्वैव प्रसङ्गात्तं राजा पप्रच्छ मन्त्रिणम्।
स्थितास्वप्युत्तराद्यासु प्राक्प्रार्थी यान्ति किं नृपाः॥५७॥
एतच्छ्रुत्वा जगादेनं पुनर्यौगन्धरायणः।
स्फीतापि राजन्कौबेरी म्लेच्छसंसर्गगर्हिता॥५८॥
अर्वधिस्तमये हेतुः पश्चिमापि न पूज्यते।
प्रासन्नराक्षसा दुष्टा दक्षिणाप्यन्तकाधिता॥५९॥
प्राच्यामुदेति सूर्यस्तु प्राचीमिन्द्रोऽधितिष्ठति।
जाह्नवी याति च प्राचीं तेन प्राची प्रशस्यते॥६०॥
देशेष्वपि च विन्ध्याद्रिहिमवन्मध्यवर्तिषु।
जाह्नवीजलपूतो यः स प्रशस्यतमो मतः॥६१॥
तस्मात्प्राचीं प्रयान्त्याशो राजानो मङ्गलैषिणः।
निवसन्ति च देशेऽपि सुरर्षिषुषमाभृत॥६२॥