कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
DevanagariHindipublished876 पृष्ठ
पृष्ठ 343, कुल 876 में से
संदर्भ में पढ़ेंपृष्ठ 343१२ कथासरित्सागर
१२ कथासरित्सागर
स्पृङ्ग्गस्तुरङ्गसङ्घातत्तुराकृष्टनसङ्गता ।
पथि तस्यामवद्भूमिरेषमुक्तेव भूपतेः ॥७॥
एव वत्सेश्वरो गच्छन् स्तूयमानः स वन्दिभिः ।
दिन कतिपय प्राप कौशाम्बीं विततोत्सवाम् ॥८॥
ध्वजरक्तांशुकच्छन्ना गवाक्षोत्फुल्ललोचना ।
प्रद्वारवर्त्तिसोत्तङ्गपूर्णकुम्भकुचद्वया ॥९॥
जनकोलाहलानन्दस्लापा सौभहासिनी ।
सा प्रवासागते पत्यौ सत्वरं शुशुभे पुरी ॥१०॥
देवीद्वयानुयातश्च स राजा प्रविशंस्ताम् ।
पौरस्त्रीणां न कोप्य् आसीन्न तद्दर्शनोत्सवः ॥११॥
अपूरि हारिहर्म्यस्थरामाननशतैर्नभः ।
देवीमुक्तसितस्येन्दोः सर्वैः सभागतरिव ॥१२॥
वातायनगताश्चान्याः पश्यन्त्योऽनिमिषेक्षणाः ।
चक्रुः सकौतुकामातविमानस्थाप्सरोग्रमम् ॥१३॥
काश्चिद् गवाक्षजालाग्रलग्नपक्ष्मललोचनाः ।
असृजन्निव नाराचपञ्जराणि मनोभुवः ॥१४॥
एकस्याः सोत्सुका दृष्टिम् पालोकविकस्वरा ।
श्रुते पार्श्वमपश्यन्त्यास्तदाक्रमातुमियाय यौ ॥१५॥
द्रुतागतायाः कस्याश्चिन्मुहुरुच्छ्वसितौ स्तनौ ।
कञ्चुकादिव निर्गन्तुमीपतुस्तद्विधुक्षया ॥१६॥
अन्यस्याः संभ्रमच्छिन्नहारमुक्तामणा बभुः ।
गलन्तो हृदयस्येव हर्षवाष्पाम्बुसीकराः ॥१७॥
यद्यस्यामाचरेत् पापमग्निसंज्ञाणके ततः ।
प्रकाशकोऽप्यसावन्धः तमो जगति पालयेत् ॥१८॥
इति वासवदत्तां च दृष्ट्वा स्मृत्वा च तत्कथा ।
बाहप्रबाष सोत्कण्ठा इव क्यश्चिद् बभाषिरे ॥१९॥
१ हर्षश्च शीतो शोकाञ्च स्वेदश्चा भवति। तथा च कालिदासः— "नलिन्यो-
शोकजमश्रु वाष्प स्तन्योरधोतं शिशिरो बिभेद। पदङ्गा सरप्सोर्जमभुन्ध तत्पं दिवाभि विध्य-
डशक्तीर्णः॥ रघु १४-२१