सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 341, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 341

एतन्निजश्वशुरदूतवचो निशम्य
वत्सेश्वरस्य हृदये सपदि प्रमोदः।
देव्यां च कोऽपि ववृधे प्रणयप्रकर्षो
भूयांश्च मन्त्रिवृषम प्रजयानुबन्धः॥१७०॥
ततस्त देवीभ्यां सममुचितसत्कारविधिना
कृतातिथ्य दूत सरभसमनाः प्रेष्य मुदितम्।
विधास्यन्नुद्योग त्वरितमथ समन्त्र्य सचिवैः
स चक्रे कौशाम्बीं प्रति गमनबुद्धि नरपतिः ॥१७१॥
इति महाकवि श्रीसोमदेवभट्ट-विरचिते कथासरित्सागरे
लावणक लम्बके तृतीयस्तरङ्गः।

चतुर्थस्तरङ्गः
वत्सराजस्य कौशाम्बींप्रति प्रत्यावर्तनम्
ततोऽ लावणकात्तस्माद्ययौ सचिवै सह।
वत्सराजः स कौशाम्बीं प्रतस्थे दयितान्वितः ॥१॥
प्रसस्र च मरुद्भावैस्तस्यापूरितभूतलः ।
वत्सरत्नमपोद्वेलसङ्कराशिजलधिरिव ॥२॥
उपमा¹ नृपतस्तस्य गजेन्द्रस्थस्य गच्छतः।
भवेद्यदि रवियर्यायाद् गगने सोदयाचलः ॥३॥
स सितेनातपत्रेण कृतच्छायो बभौ नृपः।
जिताकृतज्ञः प्रीत्या सम्यमान इवेन्दुना ॥४॥
तेजस्विनः स्वकक्षाभिस्त सर्वोपरिवर्तिनम्।
सामन्ता परितो भ्रमुर्भुवं ग्रहगणा इव ॥५॥
पश्चात्करेणुकारूढे देव्यौ द्वे तस्य रेजतुः।
श्रीभूषावनुरागेण साक्षादनुगते इव ॥६॥

१ यत्र अद्भुतौपमालंकारः। यथा च काव्यादर्शे-यदि शुभ्रूः ! भवेत् किञ्चिद्
विश्रान्त लोचनम्। ततेमुखश्रियं धत्तामित्यतावद्भुतोपमा-इति।