सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 339, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 339

२१८ कथासरित्सागर
कन्या सम्बन्धनाम्ना हि साम्ना सम्यक्स भाषितः ।
विगृह्य च कथं जह्याज्जीवितादधिकां सुताम् ॥ १५६ ॥
सत्यं तस्यानुपाल्यं च त्वया च स न वञ्चितः ।
मया स्वयं कृतं ह्येतन्न च तस्यासुखावहम् ॥ १५७॥
पारेभ्यश्च मया ज्ञातं यथा विक्रुष्टं न सः ।
तदर्थमेव चास्माभिः स्थितं च दिवसानमून ॥ १५८॥
एवं वदति निर्व्यूढकार्ये यौगन्धरायणे ।
मगधेश्वरसम्बन्धी दूतोऽत्र समुपाययौ ॥ १५९॥
तत्क्षणं स प्रविष्टोऽत्र प्रतीहारनिवेदितः ।
प्रणामान्तरमासीनो वत्सराजं व्यजिज्ञपत् ॥ १६० ॥
देवीपद्मावतीवृत्तसन्देशपरिशोधिना ।
मगधेशेन निर्दिष्टमिदं देवस्य साम्प्रतम् ॥ १६१॥
बहुना किं मया सर्वं ज्ञातं प्रीतोऽस्मि च त्वयि ।
तद्यदर्थोऽयमारम्भस्तत्कुरु प्रणता वयम् ॥ १६२॥
एतद्दूतवचः श्रुत्वा वत्सराजोऽभिननन्द सः ।
यौगन्धरायणीयस्य पुष्य नयतरोगिर ॥ १६३॥
ततः पद्मावतीं राज्ञ्या समानाय्य समं तया ।
तं दत्तप्राभृतं दूतं स सम्मान्य व्यसर्जयत् ॥ १६४॥
अथ चण्डमहासेनदूतोऽप्यत्र समाययौ ।
प्रविश्य स यथावच्च राजानं प्रणतोऽब्रवीत् ॥ १६५॥
देव ! चण्डमहासेनभूपतिः कार्यतत्त्ववित् ।
तव विज्ञात-वृत्तान्तो हृष्टः सन्दिष्टवानिदम् ॥ १६६॥
प्राशस्त्यं भवतस्तावदियत्तैवोयवर्णितम् ।
यौगन्धरायणो यत्त मन्त्री किमधिकोक्तिभिः ॥ १६७॥
धन्या वासवदत्ता तु त्वद्भक्त्या तत्कृतं तया ।
येनास्माभिः सतां मध्ये चिरमुन्नमितं शिरः ॥ १६८॥
न च वासवदत्तातो भिन्ना पद्मावती मम ।
द्वयोरेकं हि हृदयं तच्छीघ्रं कुरुतोद्यमम् ॥ १६९॥