सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 337, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 337

२१६ कथासरित्सागर
सत्यं त्वज्जार इत्युक्त्वा विहसन्स ततो मुनिः ।
सत्यानुरोधक्लृप्तान्तं शापं तस्यामपातयत् ॥१४२॥
पापशीले ! शिलाभावं भूरिकालमवाप्नुहि !
आ वनान्तरसञ्चारिरामवालोकनादिति ॥१४३॥
वराङ्गलुब्धस्याङ्गं १ ते तत्सहस्रं भविष्यति ।
दिव्यं स्त्रीं विश्वकर्मा यां निर्मास्यति तिलोत्तमाम् ॥१४४॥
तां विलोक्य तदैवाक्ष्णां सहस्रं भविता च तत् ।
इतीन्द्रमपि तत्कालं शपति स्म स गौतमः ॥१४५॥
दत्तशापो यथाकामं तपसे स मुनिर्ययौ ।
अहल्यापि शिलाभावं दारुणं प्रत्यपद्यत ॥१४६॥
इन्द्रोऽप्यावृतसर्वाङ्गो वराङ्गैरभवत्ततः ।
अशील कस्य नाम स्यान्न खलीकारकारणम् ॥१४७॥
एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा ।
यो यद् वपति बीजं हि लभते सोऽपि तत्फलम् ॥१४८॥
तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः ।
एतदुत्तमसत्त्वानां विधिसिद्धं हि सव्रतम् ॥१४९॥
युवां पूर्वभगिन्यौ च देव्यौ शापच्युते उभे ।
तद्वदस्योन्यहितकृन्निर्गूढं हृदयं हि वाम् ॥ १५० ॥
एतद्वसन्तकाच्छ्रुत्वा मिथो वासवदत्तया ।
पद्मावत्या च सुतरामीर्ष्यालिशोच्यमुज्झितम् ॥१५१॥
देवी वासवदत्ता च कृत्वा साधारणं पतिम् ।
आत्मनीव प्रियं चक्रे पद्मावत्यां हितोन्मुखी ॥१५२॥
तस्या महानुभावत्वं तत्तादृङ्मगधेश्वरः ।
श्रुत्वा पद्मावतीसृष्टदूतेभ्योऽपि सुतोष सः ॥१५३॥
अभ्युपेत्य वत्सेशं मन्त्री यौगन्धरायणः ।
उपेत्य सन्निधौ देव्याः स्थितेऽन्यदवभाषत ॥१५४॥
उद्योगायाधुना देव कौशाम्बीं किं न गम्यते ।
नाशङ्का मगधेशाच्च विद्यते वञ्चितादपि ॥१५५॥
१ वराङ्ग—स्त्रियः प्रजननेन्द्रियम् ।
२ भग सहस्रमित्यर्थः।