सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 331, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 331

२१० कथासरित्सागर

विनयपृष्टः सोऽप्यस्मै गुहचन्द्रो द्विजन्मने।
शशंस तद्गतं सर्वं वृत्तान्तं खिन्नमानसः ॥९६॥
तद्बुद्ध्वा स ततस्तस्मै सानुकम्पो द्विजोत्तमः।
अग्नेराराधनं मन्त्रं ददावीप्सितसिद्धये ॥९७॥
तेन मन्त्रेण तस्याग्नेर्जपं रहसि कुर्वतः।
उदभूद् गुहचन्द्रस्य पुरतो वह्निमध्यतः ॥९८॥
स चाग्निर्द्विजरूपी तं जगाद परमानतम्।
अद्याहं त्वद्गृहे भोक्ष्ये रात्रौ स्थास्यामि तत्र च ॥९९॥
दर्शयित्वा च तत्त्वं ते साधयिष्यामि वाञ्छितम्।
इत्युक्त्वा गुहचन्द्रं स ब्राह्मणस्तद्गृहं ययौ ॥१००॥
तत्रान्यतिप्रवद् भुक्त्वा गुहचन्द्राऽन्तिके च सः।
सिषेवे शयनं रात्रौ याममात्रमतन्द्रितः ॥१०१॥
तावच्च ससुप्तजनात् सा तस्मात्तस्य मन्दिरात्।
निर्ययौ गुहचन्द्रस्य भार्या सोमप्रभा निशि ॥१०२॥
तत्कालं ब्राह्मणः सोऽथ गुहचन्द्रमबोधयत्।
एहि स्वभार्यावृत्तान्तं पश्यत्येनमुवाच च ॥१०३॥
योगेन भृङ्गरूपं च कृत्वा तस्यात्मनस्तथा।
निर्गत्यान्वगमत्तस्य भार्या तां गृहनिर्गताम् ॥१०४॥
सा जगाम सुदूरं च सुन्दरी नगराद् बहिः।
गुहचन्द्रेण साकं च द्विजोऽप्यनुजगाम ताम् ॥१०५॥
ततस्तत्र महाभोगं सच्छायस्कन्धसुन्दरम्।
गुहचन्द्रो ददर्शानेकं न्यग्रोधपादपम् ॥१०६॥
तस्याधस्ताच्च शुश्राव वीणावेणुरवान्वितम्।
उल्लसद्गीतमधुरं दिव्यं सङ्गीतध्वनिम् ॥१०७॥
स्कन्धदेशे च तस्यैकां स्वभार्यासदृशाकृतिम्।
अपश्यत् कन्यकां दिव्यामुपविष्टां महासने ॥१०८॥
निकान्तिजितज्योत्स्नां शुक्लचामरवीजिताम्।
इन्दोर्लावण्यसर्वस्व-कोषस्येवाधिदेवताम् ॥१०९॥
अत्रावान्तरवृत्ते च तस्या अर्धसने तथा।
उपविष्टां स्वभार्यां तां गुहचन्द्रो ददर्श सः ॥११०॥