सामग्री पर जाएँ
सर्वकोश
कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)

DevanagariHindipublished876 पृष्ठ

पृष्ठ 277, कुल 876 में से

संदर्भ में पढ़ें
पृष्ठ 277

२३६ कथासरित्सागर
तच्छ्रुत्वा स ददौ तस्य तत्रार्द्धं निजायुषः ।
प्रत्युज्जिजीव सा तेन सोऽपि तां परिणीतवान् ॥८१॥
अथ क्रुद्धो रुरुर्नित्यं यं यं सर्पं ददर्श सः।
तं तं जघान भार्या मे दष्टाऽमीभिर्भवेदिति ॥८२॥
अथैकस्तं जिघांसन्तं मर्त्यवानाह डुण्डुभः ।
अहिंस्यः कुपितो ब्रह्मन्हंसि त्वं डुण्डुभानकथम् ॥८३॥
अहिना ते प्रिया दष्टा विभिन्नो ह्यहिडुण्डुभौ ।
अहयः सविषाः सर्वे निर्विषा डुण्डुभा इति ॥८४॥
तच्छ्रुत्वा प्रत्यवादीत्स सखे को नु भवानिति ।
डुण्डुभोऽप्यवदद्ब्राह्मह शापच्युतो मुनिः ॥८५॥
भवत्संवादपर्यन्तः शापोऽयमभवच्च मे ।
इत्युक्त्वान्तर्हिते तस्मिन्भूयस्तामब्रवीद्गुरुः ॥८६॥
तदेतदुपमानाय तव देवि मयोदितम् ।
डुण्डुभेषु प्रहरथ ऋद्धा यूयमहिष्विति ॥८७॥
एवमभिधाय वचनं सन्नर्माहास वसन्तके विरते ।
वासवदत्ता च प्रति तुतोष पार्श्वे स्थिता पत्युः ॥८८॥
इति मधुमधुराणि वत्सराजश्चरणगतः कुपितानुयापनानि ।
ससतमुदयनश्चकार देव्या विविधवसन्तकोक्तशतानि कामी ॥८९॥
रसना मदिरारसैकसिक्ता कलवीणारवरागिणी श्रुतिश्च ।
दयितामुखनिश्चला च दृष्टिः सुखिनस्तस्य सदा बभूव राज्ञः ॥९०॥
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथामुखलम्बकेऽष्टमस्तरङ्गः
समाप्तश्चायं कथामुखलम्बको द्वितीयः ।