कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 271, कुल 876 में से
संदर्भ में पढ़ें२४ कथासरित्सागर
बभूव रुद्रशर्माख्यः कश्चन ब्राह्मणः पुरा ।
बभूवतुश्च तस्य द्वे गृहिण्यो गृहमेधिनः ॥३७॥
एका सुतं प्रसूयैव तस्य पञ्चत्वमाययौ ।
तत्सुतोऽपरमातुश्च हस्त शेनापिष्ठोऽभवत् सः ॥३८॥
सा च किञ्चिद्विविदूष्यस्य रूक्षं तस्याशनं ददौ ।
सोऽपि तनाभवद् बालो धूसराङ्गः पृथूदरः ॥३९॥
मातृहीनस्त्वयायं मे कथं शिशुरुपेक्षितः ।
इति तामपरां पत्नीं रुद्रशर्मापि सोऽभ्यधात् ॥४०॥
सेव्यमानोऽपि हि स्नेहैरोगेन किमप्यसौ ।
किं करोम्यहमस्येति साध्यथ पतिमब्रवीत् ॥४१॥
नूनमेवस्वभावोऽयमिति मेने च स द्विजः ।
स्त्रीणामलीकमुग्धं हि वचः को मन्यते मृषा ॥४२॥
बाल एव विमष्टोऽयमिति बालविनष्टकः ।
नाम्ना स बालस्तत्र संवृद्धोऽभूत्पितुर्गृहे ॥४३॥
असावपरमाता मां कदयत्यति सर्वदा ।
वरं प्रतिक्रिया कांश्चिद्यतवेत्तस्या करोम्यहम् ॥४४॥
इति सञ्चिन्तयामास सोऽथ बालविनष्टकः ।
व्यतीतपञ्चषड्वर्षोऽपि वयसा बत बुद्धिमान् ॥४५॥
अथागतं राजकुलाज्जगाद पितरं रहः ।
तात द्वौ मम तातौ स्त इत्यविस्पष्टया गिरा ॥४६॥
एवं प्रत्यहमाह स्म स बालः सोऽपि तत्पिता ।
तां सोपपतिमाशङ्क्य भार्यां स्पर्शेऽप्यवर्जयत् ॥४७॥
सापि दध्यौ विना दोषं कस्मान्मे कुपितः पतिः ।
किञ्चिद् बालविनष्टेन कृतं किञ्चिद् भवेदिति ॥४८॥
सादरं स्नापयित्वा च दत्वा स्निग्धं च भोजनम् ।
कृत्योत्सङ्गे च पप्रच्छ सा तं बालविनष्टकम् ॥४९॥
पुत्र किं रोपितस्तातो रुद्रशर्मा त्वया मयि ।
तच्छ्रुत्वैव स तां बालो जगादापरमातरम् ॥५०॥
अतोऽधिकं ते दास्यामि न चेदद्यापि शाम्यसि ।
स्वपुत्रपोषिणी कस्मान्मां क्लिदनासि सर्वदा ॥५१॥