कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 229, कुल 876 में से
संदर्भ में पढ़ेंतथेत्यागत्य तत्स्मै स्वप्रभुप्रार्थनावचः।
कथितो लोहजङ्घाय घस्रसं स च राक्षसः ॥१२२॥
सोऽप्यङ्गीकृत्य तद्विप्रो लोहजङ्घः प्रशान्तधीः।
तेनैव सद्वितीयेन सह लङ्कां ततोऽगमत् ॥१२३॥
तस्यां च दृष्टसौवर्णतत्तत्प्रासादविस्मितः।
प्रविश्य राजभवनं रा ददर्श विभीषणम् ॥१२४॥
सोऽपि पप्रच्छ राजा तं कृतातिथ्यः कृताशिषम्।
ब्रह्मन्! कथमिमां भूमिमनुप्राप्तो भवानिति ॥१२५॥
ततः स धूर्तोऽवादीत्तं लोहजङ्घो विभीषणम्।
विप्रोऽहं लोहजङ्घाख्यो मथुरायां कृतस्थितिः ॥१२६॥
सोऽहं दारिद्र्यसन्तप्तस्तत्र नारायणायत।
निराहारः स्थितोऽकार्षं गत्वा द्वकुलं तपः ॥१२७॥
विभीषणान्तिकं गच्छ मद्भक्तः स हि ते धनम्।
दास्यतीत्यादिशत् स्वप्ने ततो मां भगवान्हरिः ॥१२८॥
क्वाहं विभीषणः क्वेति मयोक्ते स पुनः प्रभुः।
समादिक्षद्ध्रुवाद्यैव तं द्रक्ष्यसि विभीषणम् ॥१२९॥
इत्युक्तः प्रभुना सद्यः प्रबुद्धोऽहमिक्षाम्बुधः।
पारेऽञ्चस्थितमारभाममपश्यं तद्विं नापरम् ॥१३०॥
इत्युक्तो लोहजङ्घेन लङ्कामालोक्य दुर्गमाम्।
सत्यं दिव्यप्रभावोऽयमिति मेने विभीषणः ॥१३१॥
तिष्ठ दास्यामि ते वित्तमित्युक्त्वा ब्राह्मणं च तम्।
मत्वा च रक्षसां हस्ते तमप्रच्छ्य नृघातिनाम् ॥१३२॥
तमस्यारत्नर्भमुत्साख्याद् गिरेः सम्प्रेष्य राक्षसान्।
मानाययत्पक्षिपोतं गरुडान्वयसम्भवम् ॥१३३॥
स चास्मै लोहजङ्घाय मथुरायां गमिष्यते।
तत्कालमेव प्रददौ वशीकाराय वाहनम् ॥१३४॥
लोहजङ्घोऽपि लङ्कायां वाह्यप्रशिष्टहस्तम्।
कञ्चित्काल विशश्राम स विभीषणसत्कृतः ॥१३५॥
एकदा तं च पप्रच्छ राक्षसेन्द्रं सकौतुकः।
लङ्कायां काष्ठमप्येषा कथं सर्वैव भूरिति ॥१३६॥