कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (उद्गम)
पृष्ठ 221, कुल 876 में से
संदर्भ में पढ़ें१८ कथासरित्सागर
तच्छ्रुत्वा तं च दृष्ट्वाग्रे मत्वा योगबलं तत् ।
युक्त्या वासवदत्तां तां वत्सराजोऽब्रवीदिदम् ॥६१॥
गत्वा सरस्वतीपूजामादायागच्छ दारिके ।
तच्छ्रुत्वा सा तथेत्युक्त्वा सवयस्या विनिर्ययौ ॥६२॥
यथोचितमुपेत्याथ ददौ वत्सेश्वराय सः ।
यौगन्धरायणस्तस्मै योगाक्षियङ्मभ्यञ्जनान् ॥६३॥
अस्याम् वासवदत्ताया वीणातन्त्रीनियोजितान् ।
वशीकरणयोगांश्च राज्ञस्तं स समर्पयत् ॥६४॥
व्यजिज्ञपच्च तं राजन्निहायातो वसन्तकः ।
द्वारि स्थितोऽप्यरूपेण तं कुरुष्वान्तिके द्विजम् ॥६५॥
यदा वासवदत्तेयं तव विश्रम्भमेष्यति ।
तदा वक्ष्यामि यदहं तत्कुर्यास्तिष्ठ साम्प्रतम् ॥६६॥
इत्युक्त्वा निर्ययौ शीघ्रं ततो यौगन्धरायणः ।
अगाद् वासवदत्ता च पूजामादाय तत्क्षणात् ॥६७॥
सोऽथ तामवदद्राजा बहिर्द्वारि द्विजः स्थितः ।
सरस्वत्यर्चने सोऽस्मिन् दक्षिणार्थे प्रवेश्यताम् ॥६८॥
सथेति द्वारवेद्यास्तं सत्र वासवदत्तया ।
विरूपामाकृतिं बिभ्रदानाय्यत वसन्तकः ॥६९॥
स चानीतस्तमालोक्य वत्सेशमरुवन्मुचा ।
ततश्चाप्रतिभेदाय स राजा निजगाद तम् ॥७० ॥
हे ब्रह्मन् ! रोगधैरूप्य सर्वमेतदहं तव ।
निवारयामि मा रोदीस्तिष्ठहेह ममान्तिके ॥७१॥
महाम्प्रसावो वेवति स धोवाच वसन्तकः ।
सोऽथ तं विकृतं दृष्ट्वा राजा स्मितमुखोऽभवत् ॥७२॥
तच्चालोक्याशयं बुद्ध्या तस्य सोऽपि वसन्तकः ।
हसति स्माधिकोद्भूतविरूपाननवैकृतः ॥७३॥
तं हसन्तं तथा दृष्ट्वा क्रीडनीयकसन्निभम् ।
तत्र वासवदत्तापि जहासा च तुतोष च ॥७४॥
यत सा नर्मणा बाला तं पप्रच्छ वसन्तकम् ।
किं विप्रान विजानासि भो ब्रह्मन् ! कथ्यतामिति ॥७५॥